पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तैत्तिरीयोपनिषद्दीपिका अथ नवमोऽनुवाकः i यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान्नबिभे- ति कुतश्चनेति । कुतश्चन कस्मादपि । शेषं समानपाठं मनोमयपर्यायवव्याख्येयम् । पूर्वं यतो मनसः कारणादिति व्याख्यातं मनोमयपर्यायप्रसङ्गात् । इदानीं संकोचे कारणाभावात्स- र्वकारणादानन्दात्मन इति व्याख्येयम् । ननु –भीतिरहिताः सन्ति सहस्रशः पुण्यात्मानः संसारिण इत्यत आह - एतं ब्रह्मविदं ह प्रसिद्धं वावैव न तपति संतापं न कुरुते न संतापयतीत्यर्थः । मानसप्रत्यय इति शेषः । कुत्रेत्ययमभिनयेनाऽऽह-वृद्धादेः शोकजे विचारे किमहं क्षीणशक्तिः । साधु शोभनं पुण्यात्मकं कर्म । नाकरवं न कृतवान् । आः कष्टमिति शेषः । किमहं व्याख्यातम् । पापं श्रुत्यादिनिन्दितं कर्म । अकरवं कृतवान् । आः कष्टमिति शेषः । इत्यभिनयार्थः । अनेन प्रकारेण भयरहिताना- मपि संसारिणां पुण्यपापाभ्यां भीतिर्नास्य स्पृष्टेत्यभिप्रायः । 1 ९ नवमोऽनुवाकः ] संतापो ननु— तर्हि किं लोकायतिक इत्याशङ्कय नेत्याह—सोऽधिकारी | यः प्रसिद्धः । एवं विद्वानहमेव निरतिशयज्ञानानन्दो न मत्तोऽन्यत्किंचिद्वस्तुभूतमस्तीति ज्ञानवान् । एते पुण्य- पापे । आत्मानमानन्दात्मरूपं नैनं स्पृणुते प्रीणयति । सुकृतदुष्कृते अहमेवास्मत्यिवग- च्छतीत्यर्थः । ततो न लोकायतिकसम इत्याह – उभे पुण्यपापे | हि यस्मादेवैष विद्वाने- वैते आत्मानं स्पृणुते व्याख्यातम् । सर्वात्मत्वात्पुण्यपापानुष्ठानाननुष्ठानजन्यः न तु लोकायतिकवनास्तिक्येनेत्यर्थः । तदेतदाह –य एवं वेद प्रसिद्धोऽधिकार्युक्तमानन्दरूपं निर्भेदमात्मत्वेन जानाति । य एवं वेदैष एवैते उभे आत्मानं स्पृणुते हीत्यन्वयः । ततो लोकायतिकाद्विलक्षण इति शेषः । इतिरानन्दवल्लीसमाप्तावुक्तात्मज्ञानानुकरणार्थों वा । उपनिषत्सर्वकारणं सर्वाधारभूतं निरतिशयानन्दैकस्वभावं निर्भेदमपगतसमस्तप्रपञ्चं ब्रह्मा- हमस्मीति सामीप्येन नितरां गमयित्वाऽहंममादिबन्धनानि शिथिलीकृत्याविद्यां सकार्यां ससं- स्कारान्सादयति विनाशयतीत्युपनिषद्धह्मविद्या प्रतिपादको ग्रन्थो वोपनिषेत् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छंकारानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां ब्रह्म - आनन्द वल्ल्यां नवमोऽनुवाकः ॥ ९ ॥ ३३ इति श्रीमत्परमहंस परित्राजकाचार्यानन्दात्मपूज्यपादशिष्यस्य श्रीशंकरानन्दस्य कृतौं पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां ब्रह्म - आनन्द - वल्ली समाप्ता ॥ २ ॥