पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ शंकरानन्दकृता [ ब्रह्म-आनन्द-वल्ली - वानाम् । इदं श्रुतिरेव व्याकरिष्याते । पूर्ववद्विशेषणमुक्त्वा विशेष्यमाह - देवानामाजा- नेभ्य उत्कृष्टानां योतनात्मकानाम् । कर्मदेवानामित्येतद्व्याकरोति । ये प्रसिद्धा याज्ञिकाः । कर्मणाऽग्निहोत्राव्यश्वमेधान्तेन देवान्योतनात्मकानपियन्ति प्राप्नुवन्ति देवत्वमुपगता इत्यर्थः । देवानां त्रयस्त्रिंशत्संख्याकानां हविर्भुजामग्न्यादीनाम् । इन्द्रस्य त्रिलोकीपत्युः (तेः) शक्रस्य । बृहस्पतेर्देवगुरोः । प्रजापतेर्विराजः । ब्रह्मणो हिरण्यगर्भस्य | नवस पर्यायेषु प्रायः समा- नपाठम्। शेषं पूर्वं पूर्वं तदायर्थत्वेन व्याकृत्य यथोचितं गन्धर्वादिपदैर्योजनीयम् | अकामहतत्वं च पूर्वपूर्वविषयत्वेन हिरण्यगर्भस्य यावानानन्दस्तावानानन्दो निरतिशयवैराग्य इति तात्पर्यार्थः । हिरण्यगर्भादुत्कृष्टस्य ब्रह्मानन्दस्य वाङ्मनसयोरगोचरत्वाद्धिरण्यगर्भानन्दमेव ब्रह्मानन्दसमुद्रस्योदबिन्दुसमं दिङ्मात्रमुक्त्वोपरराम श्रुतिः । अतः परं स्वयंप्रकाशान- न्दात्मैव प्रमाणं नाइमिति श्रुतेरभिप्रायः । 3 www. अनेन भावरूपो निरतिशयश्च ब्रह्मानन्द उक्तः । तथाऽपि स तु हिरण्यगर्भादपि परतो देहायुपाधिस्थो वा नास्मदादिरूप इत्यत आह - सः परोक्षो हिरण्यगर्भादुत्कृष्ट आन॑न्दः । यश्च प्रसिद्धोऽपि, अयं स्वयं प्रकाशमानः । पुरुषे पञ्चकोशात्मके पुरुषशब्दा- भिघिये ब्रह्मपुच्छत्वेनोक्तः । यश्च प्रसिद्धोऽपि, असौ परोक्षोऽस्मदादीनां प्रत्यक्षश्च विदुषः । आदित्य आदित्यमण्डले । चकारौ पुरुषादित्ययोर्वाचारम्भणमाहतुर्वाक्यद्वय- गतौ । स आदित्ये पुरुषे च वर्तमानः | एको भेदरहितः । विदुषो ब्रह्मप्राप्तिरुक्ता यदेत्या- दिना यद्यपि, तथाऽपि तत्वमसीतिनोक्तं तदर्थं प्रासङ्गिकमैक्यमभिधाय पुनस्तत्प्राप्तिमाह - सोऽधिकारी । यो यः कश्चन | एवंविदादित्ये पुरुषे च ब्रह्मानन्दमभेदेन विद्वान् । अस्मात् प्रत्यक्षात् । लोकादृष्टादृष्टसाधनफलात्मकात् । प्रेत्य प्रकर्षेणाऽऽगत्य मृतवदत्राभिलाष - शून्य इत्यर्थः । एतमुक्तमन्नमयमन्त्रावकारम् । आत्मानमिन्द्रियद्वारा विषयप्रापकम् | उपसंक्रामति, अन्नमयमध्यात्माधिदैवभेदाभिन्नमप्यध्यस्तं वस्तुतस्त्वहमेवेदमिति सामीप्येन सम्यगवगच्छति । एतं प्राणमयमात्मानमुपसंक्रामति । एतं मनोमयमात्मानमुपसं- क्रामति । एतं विज्ञानमयमात्मानमुपसंक्रामति । एतमानन्दमयमात्मानमुपसं- क्रामति । स्पष्टम् । पर्यायचतुष्टयमन्नमयवव्याख्येयम् । सर्वात्मत्वज्ञानेनाऽऽनन्दं ब्रह्म प्राप्नो- तीत्यर्थः । तदपि तस्मिन्पञ्चकोशाधिष्ठाने पुच्छरूपे ब्रह्मणि रसे सर्वानन्दातिशायिन्यधिदै- वादिभेदशून्येऽहमस्मीत्यवगतेऽपिशब्दाथो हि यदात्मा भवति सोऽसौ तस्मात्र बिभेति । न च ब्रह्मणोऽन्यदत्रास्ति किंचिद्रह्माऽऽत्मा चायं ततो नास्य भीतिः कृतश्चिदिति युक्तिरुक्ता । एष लोको भवति व्याख्यातम् ॥ इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीमच्छंकरा नन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां ब्रह्म - आनन्द - वलयामष्टमोऽनुवाकः ॥ ८ ॥ ( १ ) उत्कटानां ( २ ) °र्थः । देवाः समुच्चयकारिणो देवयानमार्गगामिनो देवाः । देवानां ।