पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ अष्टमोऽनुवाक: ] तैत्तिरीयोपनिषई पिका 'एकत्वसंख्याक्रान्तः । मानुषो मनुष्येषु भवः । आनन्दी भावरूपः सुखात्मा । नातः परं · मनुष्याणां सुखमित्यर्थः । ते परीक्षाः । ये प्रसिद्धाः। शतं शतसंख्याका मानुषा आनन्दाः व्याख्यातम् । वचनं तु विशेषः । स परोक्षः प्रसिद्धः । एक एकत्वसंख्याक्रान्तः । मनुष्यगन्धर्वाणां मनुष्याः सन्तो 'जन्मान्तरे गन्धर्वत्वं प्राप्ता मनुष्यगन्धर्वा अन्तरिक्षलोक निवासिनोऽन्तर्वानादिशक्किमन्तस्ते- षाम् । आनन्दः सुखात्मा | अस्माकं चक्रवर्तिनां यथोक्तगुणविशिष्टानां शतगुणसुखं मनुष्य- गन्धर्वाणां परमं सुखमित्यर्थः । श्रोत्रियस्य चार्धातवेदस्याप्यवृजिनत्वं चात्रार्थसिद्धमिति न पठितम् । श्रोत्रियत्वं च चक्रवर्तिनोऽस्य च समानम् । चकारो मनुष्यगन्धर्वानन्दसमुच्च- यार्थः । मनुष्यगन्धर्वानन्दप्राप्तौ कारणमाह - अकामहतस्य यथोक्तगुणविशिष्टचक्रवर्तिसुख- कामेनानिपातितस्य तदभिलाषरहितस्येत्यर्थः । यो हि यत्राभिलाषरहितस्तस्य तद्विषयप्राप्तेः शतगुणं सुखं भवतीत्यत एव प्रथमे पर्याये · श्रोत्रियस्य चाकामहतस्येति न पठितम् । ते ये शतं मनुष्यगन्धर्वाणामानन्दाः । स एको देवगन्धर्वाणामानन्दः । श्रो- त्रियस्य चाकामहतस्य । ते ये शतं देवगन्धर्वाणामानन्दाः । स एकः पितृणां चिरलोकलोकानामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं पितॄणां चिरलोकलोकानामानन्दाः । स एक आजानजानां देवानामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतमाजानजानां देवनामानन्दाः । स एकः कर्मदेवानां 'देवानामानन्दः । ये कर्मणा देवानपियन्ति । श्रोत्रियस्य चाकामहतस्य । ते ये शतं कर्मदेवानां देवानामानन्दाः । स एको देवानामानन्दः श्रोत्रियस्य चाका- महतस्य । ते ये शतं देवानामानन्दाः । स एक इन्द्रस्याऽऽनन्दः । श्रोत्रियस्य • चाकामहतस्य । ते ये शतमिन्द्रस्याऽऽनन्दाः । स एको वृहस्पतेरानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं बृहस्पतेरानन्दाः । स एकः प्रजापते- रानन्दः । श्रोत्रियस्य चाकामहस्य । ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मण 'आनन्दः । श्रोत्रियस्य चाकामहतस्य | देवगन्धर्वाणां देवाश्च ते गन्धर्वाश्य देवगन्धर्वा - •स्तेषां चाऽऽकल्पगन्धर्वशरीर प्राप्तिहेतुभूत कर्मप्यामित्यर्थः । पितॄणां, पितृविशेषणं चिरलो- • कलोकानां चिराद्दीर्घस्थायिनो लोकाः कर्मफलविशेषास्ते येषां लोकास्तत्स्थायिनः चिरलो- कंलोकास्तेषामनेककालस्थायिनामित्यर्थः । आजानजानां कल्पादानुत्पन्नानामाजाने देवलोके जाता आजानजास्तेषां, विशेषणमिदम् । विशेष्यमाह - देवानां योतनात्मकानाम् । कर्मदे- ( १ ) °लोकाः स्मार्तकर्मानुष्ठानपरा देवलोकं प्राप्तास्ते । ( २ ) ० नां श्रौतकर्मानुष्ठातारोऽविद्वांसो · देवत्वं प्राप्ताः क° ।