पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शंकरानन्दकृता [ ब्रह्म-आनन्द वल्ली न त्वन्यश् । भयं व्याख्यातम् । विदुषः कर्मविद्याविदः | अमन्वानस्याहं ब्रह्मास्मीत्य- भेदेन मननरहितस्य । इदमेव वैषम्यं कर्मब्रह्मविदोः । तत्तत्राऽऽत्मत्वेनाज्ञाते ब्रह्मणि भयंक- रेऽपि । एष श्लोको भवति । व्याख्यातम् । अपिशब्दसूचिता युक्ति: संक्षेपेणेयम् । अमृतं, माता, पिता, बन्ध्वादि वाऽविपरीतरूपमपि स्वस्येष्टकारित्वेन स्वयं विपरीतगृहीतं तदनिष्टमकुर्वदपि स्वस्यानिष्टकारि दृष्टं यथा तद्ब्रह्मापि ॥ इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीमच्छंकररानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां ब्रह्म - आनन्द वल्लयां सप्तमोऽनुवाकः ॥ ७ ॥ अथाऽष्टमोऽनुवाकः भीषा भीत्या | अस्माद्ब्रह्मण आत्मत्वेनाज्ञानात् । वातो वायुः | पवते वाति । भीषा भीत्या | उदेत्युदयं गच्छति । सूर्य आदित्यः | अस्मादित्यनुवर्तते । भीषाऽस्मा- द्वयाख्यातम् । अग्निश्च वह्निरपि दहनादिकं करोतीति शेषः । इन्द्रश्च त्रिलोकीनाथोऽपि त्रिलोकी भवतीति शेषः । आयश्वकारोऽनुक्तानां सर्वेषां महतां व्यापारसमुच्चयार्थ: । द्वितीयो भीषाऽस्मादिति संबन्धार्थः । मृत्युः स्थावरजङ्गमविनाशकारी | धावति सर्वेषामभावाय सर्वान्प्रति गच्छति । पञ्चमः पञ्चसंख्यापूरणो भीषाऽस्मादित्यनुषङ्गः । इतिः चोकसमाप्तौ । ननु – प्रकृता ब्रह्मप्रभा व्याख्यातास्तत्रैव ब्रह्मप्राप्तेरपुरुषार्थत्वे शङ्किते प्रसङ्गाह्मण आनन्दरूपत्वमुक्तम् । सोऽयमानन्दो दुःखाभावो भावो वा सातिशयस्ततोऽपुरुषार्थ इत्याशङ्कया- ऽऽह - सा प्रसिद्धा । एषा वक्ष्यमाणा | आनन्दस्य भावरूपस्य सुखस्य मीमा सा ब्रह्मविदां सुखकारित्वेन पूजितो विचार आनन्दस्योत्कर्षवत्त्वेनाभावत्वव्यावृत्तिफलो ब्रह्मान- न्दस्य सर्वस्मादधिकत्वेनापुरुषार्थत्वव्यावृत्तिफलः । भवति स्पष्टम् । युवा षोडशवर्षमारभ्याऽऽपलितदर्शनमुपघातमन्तरेण मध्यमं वयो यौवनं तद्वानक्षीणेन्द्रि- यशक्तिरित्यर्थः । स्याद्भवेत् । यौवनेऽपि स्वभावतः शरीरस्येन्द्रियाणां वा वैरूप्यं संभावित रोगादिनिमित्तं वा तन्निवारणार्थमाह - साधुयुवा कन्दर्पसमानरूपः सन् यौवनसंपन्नः । तादृशोऽपि मूर्खो मा भूदित्याह - अध्यायकोऽधीतसाङ्गोपाङ्गवेदः सर्वज्ञ इत्यर्थः । तादृशो- sपि केवलं स्वोदरंभरिरतिमन्दो वा तवयं तन्त्रेण वारयति — आशिष्ठोऽतिशयेनाऽऽशा- स्ताऽतिशयेनाऽऽशुकारी च । अथाप्यतिमन्दत्वाद्वयर्थजीवित एवेत्यत आह - इढिष्टो- Sतिशयेन दृढोऽत्रिकृतवाक्कायमना इत्यर्थः । तादृशोऽपि बलहीनः स्यादित्यत आइ~- बलिष्टोऽतिशयेन बलसंपन्नः । एवं भूतोऽपि वित्तहीनः स्यादित्यत आह—तस्योक्तविशेषण- विशिष्टस्य । इयं सप्तद्वीपाब्धिवलयलोक मेखला । पृथिवी भूमिः । सर्वा निखिला । वित्तस्य वित्तेन दृष्टादृष्टसुखकरेण गोहिरण्यादिना । पूर्णा परिपूर्णा | स्याद्भवेत्सर्वलक्षण- संपन्नस्य चक्रवर्तिन इत्यर्थः । स सर्वलक्षणसंपन्नस्य चक्रवर्तिनो जायमान आनन्दः । एकः