पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ सप्तमोऽनुवाकः ] तैत्तिरीयोपनिषद्दीपिका । २९ त्म्यः साधनतारतम्येनापसारिताविद्यातारम्यादाविर्भूतात्मनुखतारतम्यरूपः । अविवादशाया- मानन्दयाति, आकीटपतंङ्गमाब्रह्म च निखिलं जगदायोनिप्रादुर्भावादामोक्षसाक्षात्कारा- चाऽऽनन्दयति । आनन्दात्मनि साक्षात्कृते न साध्यसाधनादिभावः । तत्साक्षात्कारणात्प्रा- क्साध्यसाधनादेरपि वस्तुतस्तदात्मकत्वात्तस्यैव सुखदातृत्वमविरुद्धमित्यर्थः । ननु – आत्मनोऽस्तित्वे स्थिते विद्वानेव कदा कथं प्राप्नोतीत्यत आह - यदा यस्मिन्काले । हि यस्माद्विदुषो ब्रह्मप्राप्तौ नियामको हेतुहिनोच्यते । ब्रह्मसाक्षात्कारवत्वेनापगताविद्यत्वा- दित्यर्थः । एव-अयं पार्थसारथिवत्कालवाचिना विद्वद्वाचिना लाभवाचिना च संबध्यते । गदैव न त्वन्यदा । एष विद्वानेव न त्वन्यः । एतस्मिन्नात्मनो भेदरहिते सत्ये रसे । अदृश्ये बाह्यान्तरेन्द्रियज्ञानाविषये । अनात्म्य आत्मन इदमात्म्यं त्रिविधं शरीरं न यस्या- सावनात्म्यस्तस्मिन् । - - ननु – सर्वज्ञानाविषयोऽशरीरोऽपि वाग्गोचरः पदार्थों नरविषाणादिर्दृश्यत इत्यत आह - अनिरुक्ते निरुक्तिशून्ये वाचामगोचर इत्यर्थः । ननु – वाचामगोचरोऽपि साश्रयः पदार्थों दृष्टो यथाऽविद्या सदसयुक्त्यविषयेत्यत आह - अनिलयने निलवनमाश्रयस्तद्धीने । ननु – प्राकृते प्रलये तत्रैव प्रतिष्ठां सर्वोऽपि विन्दत इत्यत आह—– अभयं भयं प्रकृतिस्थाः संस्काराः प्रकृतिश्च भयानकसंसारहेतुत्वात्तच्छ्रन्यमभयमित्यर्थः । अभयं यथा तथेति व्याख्ये- यम् । प्रतिष्ठामिदमहमस्मीति तादात्म्येन प्रतिकूलसंस्कारराहित्यलक्षणेन प्रकर्षेण स्थितिम् । विन्दते लभत एव । अथ तदा सोऽस्मिन्प्रतिष्ठां प्राप्तो विद्वान् | अभयं गतः - भयमवि- व्यातत्संस्कारा द्वैतरूपास्तच्छ्रन्यमभयं स्वयंप्रकाशमानानन्दात्मस्वरूपाविर्भावं गतः प्राप्तः । भवति स्पष्टम् । जीवन्मुक्तः सर्वदा भवतीत्यर्थः । ननु विद्वानविद्वानपि ब्रह्मणि प्रतिष्ठित एव तस्य सर्वाधारत्वात्ततोऽविदुषोऽपि प्रेतस्य ब्रह्मप्राप्तिः स्यादित्यत आह—यदा यस्मिन्काले । हिर्हेतौ । यस्माद्रह्माणि प्रतिष्ठितोऽप्यवि- हमस्मीति ब्रह्मन प्रतिपद्यते निविस्थ इव जात्यन्धो निधिम् । एव पूर्ववत् । एष प्रसिद्धः संदिहानो विपर्यस्तोऽज्ञानी च । एतस्मिन्स्वात्माभिन्ने ब्रह्मणि । उपि । अरम- ल्पम् । अन्तरं भेदम् । कुरुते स्पष्टम् । अथ तदा तस्य संदिग्धस्य विपर्यस्तस्याशानि- नश्च | भयमविद्यातत्कार्यतत्संस्कारजन्य मध्यात्माधिभूताधिदैवभेदभिन्नं वाचि मनसि काये- ऽसह्यदुःखकारणं जन्मादि । भवति ब्रह्मैव संदेहविपर्ययाज्ञानैरुक्तभयरूपं भवति स्रगिव सर्पाव्याकारैः । ननु अविदुषस्तथाऽस्तु, यस्तु शास्त्रीये कर्मण्यधिकृतो विद्वांस्तस्य ब्रह्मविद इव ब्रह्मप्राप्तिरित्यत आह—तत्तूतं ब्रह्म भयरूपम् | तुशब्दः शङ्कानिवारणार्थः । शास्त्रीय- कर्मण्यधिकृतस्य विदुषो ब्रह्मविदश्व न साम्यं भिन्नाभित्रबुद्धित्वेन विरुद्धत्वात् । एव तदेव । ( १ ) विविधं । ( २ ) ° यस्थस्या ॰ पाठः ।