पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ शंकरानन्दकृता ब्रह्म आनन्द - वडी रूपम् । सुकृतम् - स्वार्थेऽयं सोः प्रयोगः | स्वेन स्वकृतवत्स्वकृतं स्वकृतमेव परोक्षण सुकृतं पुण्यमुच्यते कथ्यते देवैः । इतिर्मन्त्रसमाप्तौ । ननु ~~ “ब्रह्मविदाप्नोति परम्” इत्युपकान्तम् । तत्र किं ब्रह्मेत्याशङ्कायां सत्यादिलक्षणं त त्स्त्ररूपमभिधाय तत्प्रतिपत्यथं च तस्याऽऽकाशादिकारणत्वाभिधान प्रसङ्गेन कोशपञ्चकमवतार्य पञ्चमकोशाधारब्रह्मास्तित्वनास्तित्वज्ञानाभ्यामर्थानर्थयोरभिधानेन प्रभेषु समागतेषु सन्निर्ण- ग्रार्थमिदं ‘सोऽकामयत’ इत्यारभ्य 'सुकृतम्' इत्यन्तमुक्तमस्तु । तत्तथाऽपि सर्वकारणब्रह्मावातौ न पुरुषार्थ आनन्दावाप्तेरेव तथात्वादित्यत आह - यत्प्रसिद्धं जगत्कारणम् । वै स्मर्यमाणं तद्ब्रह्म । सुकृतमविष्यायाः स्वात्मरूपमेव कर्मकर्तृभावेन कृतवत् । रस आनन्दद्रवः स्वयं- प्रकाशमानानन्द इत्यर्थः । वै प्रसिद्धी वैषयकसुखरूपेण सर्वप्रियतमत्वेन वा स्मर्यमाणो वा । स मोक्षे भावीदानीं परोक्ष एव प्राणिनां रसः - रसं सुकृताभिन्नमानन्दात्मस्वरूपम् । हि यस्मादेव । रसं लब्ध्वेति द्वाभ्यां शृङ्खलान्यायेन संबध्यते । रसमेव न त्वन्यत् । अय- मधिकारी | लब्ध्वा प्राप्यैव न त्वन्यथा । आनन्दी प्रत्यक्प्रकाशमानानन्दात्मस्वरूपः । भवति स्पष्टम् । तस्मात्पुरुषार्थो ब्रह्मप्राप्तिरित्यर्थः । ननु – सुकृतस्य ब्रह्मण आत्माभिन्नस्याऽऽनन्दत्वं भवतोच्यते । प्रतीतिश्च विपरीतेत्या-- शङ्कय तदुत्तरत्वेनान्यथानुपपत्तिमाह - क आत्मनोऽनानन्दत्व आनन्दात्मव्यतिरिक्तः । हि- हॅत्वर्थः । एव नाम । कस्तु नामान्यांदपानचेष्टां कुर्यात् । को व्याख्यातम् । प्राण्यात्प्राण-- चेष्टां कुर्यात् । यद्यद्येष स्वयंप्रकाशमानः | आकाश: आकाशवत्सर्वगत आकाशशब्दाभिधे यो वा । देशकालवस्तु परिच्छेदशन्य इत्यर्थः । आकाश इति सप्तम्यन्तत्वपक्षे हार्दाकाशेऽवि- त्याशबलित इति व्याख्येयम् । आनन्दः परमप्रेमालम्बनत्वेनोपलक्षित आनन्दात्मा | न स्यान्न भवेत् । अयमर्थः - आत्मकामाय सर्वा लौकिक्यो वैदिक्यश्चेष्टाः | प्राणवारणमपि । आत्मा चेद्दुःखं दुःखसाधनं वा स्यात्तदानीं वृश्चिकतजन्यदुःखवदेयः स्यात् । दुःखसाधनत्वे वाऽऽत्मार्थं भार्यादिकं प्रियं न स्यात् । ततः सुखत्वं परिशिष्यते । अभावस्यासवे सत्त्वे ना- ऽऽत्मनो दुःखाभावत्वं प्रतीतिविरुद्धम् । सुखस्यापि जायमानस्य वेद्यस्याऽऽत्मार्थत्वेन प्रियता दृष्टा । न तु स्वरूपेण । अन्यथा वैर्यादिगतस्यापि तस्य प्रियता स्यात् । तेन नित्यस्वयंप्रका- शमानानन्दात्मा परमप्रेमालम्बनत्वेनाङ्गीकरणीयः । परमप्रेमालम्बनत्वं च तदर्थलौकिकवैदि- कजीवनचेष्टान्यथानुपपत्त्या कल्प्यते । आत्मनोऽनानन्दत्वे न काऽपि चेष्टा स्यादिति । ननु -- यथयमानन्दस्वरूपस्तर्हि किमर्थमयमानन्दाथं लोकः साधनमादत्त इत्यत आह - एष आकाश आनन्दात्मा स्वयंप्रकाशमानोऽप्यनाव्यविधातृतः साधनसाध्यादिभावेन व्यवस्थितो हि यस्मा- त्तस्मादिति शेषः । एव एषशब्देन संबध्यते । एष एव साधनं साध्यं च वस्तुतोऽज्ञातात्मयाथा- ( १ ) स्तु तत्तथा । तथाऽपि - पाठः । ( २ ) ० न्याचेष्टां ।