पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ सप्तमोऽनुवाक: ] तैत्तिरीयोपनिषद्दीपिका २७ हितं सत्यं व्यवहारतो वा बाधरहितम् । तद्विपरीतमनृतम् | चकारौ पूर्ववत् । अस्ति- नास्तीतिप्रत्ययविषयः सर्वकार्यकारणवर्गो ब्रह्म च ब्रह्मैवाभूदित्यर्थः । ननु –स सर्वकारणं सर्वमभूदित्येतावत्प्रतीयते न तु तदसत्यं नेति वचनादित्यत आह - सत्यं सर्वबाधशून्यं भावरूपं ब्रह्म । अभवदुक्तं मूर्तामूर्तादिकमभवत् । असतः सर्वात्मत्वे सर्वमिदं सर्वैः प्रत्ययैर- •सदिति प्रतीयेत नरविषाणवन्ध्यापुत्रादिवत् । ततो नासत्सर्वात्मकं किंतु सदेव । प्रतीतेर- विश्वासे जीवनादिव्यवहारस्यापि दुर्लभत्वमित्यर्थः । t किं सदादिकं दशविधं तद्बुद्धयश्चेत्येतावदेव सत्यमभवदित्याशङ्कय नेत्याह – यदिदं किंच, उक्तमनुक्तं चोत्प्रेक्ष्यमाणं यत्किचेदं निखिलमपीत्यर्थः । तनिखिलमपि सत्या- द्ब्रह्मणोऽभिन्नं तस्मिन्नध्यस्तत्वेन प्रतीयमानं प्रसिद्धम् । सत्यं सत्यशब्दार्ह व्यवहारक्षमत्वन मूर्तामूर्तत्वेन च । मूर्तामूर्तविभागो भूतपञ्चक एव । तेजोबनानि मूर्तानि | वाय्वाकाशाव- मूर्तौ । कार्यकारणयोरपि मूर्तमूर्तत्व एवमवगन्तव्ये । कार्यं सर्वः प्रपञ्चो भूतभौतिकरूपो मूर्त स्थूलत्वात्कारणतः अविद्या त्वमूर्त तद्विपर्ययादप्रतीयमानत्वेन वा । इति - अनेन प्रका- रेण । आचक्षते कथयन्ति ब्रह्मविदः । तत् तत्र सर्वकार्यशन्ये ब्रह्मण्यपि युक्त्यभ्युश्च यार्थस्तच्छन्दः । ब्रह्मणः सत्यत्वेऽन्यस्य चासत्यत्वे युक्तिश्चेयम् | ब्रह्मव्यतिरिक्तं यत्सत्यं तन्नित्यमनित्यं वा ? अनित्यत्वे कार्यता कार्यत्वे चासत्यत्वमनिच्छतोऽपि प्रामादिकस्व- जिह्वाचर्वणवदागतम् । नित्यत्वेऽप्यसर्वगतत्वेऽपि जाब्यत्वेऽपि भेदे स एव दोषः । तस्माद्ब्रह्मैव · सत्यं न त्वन्यत् । ब्रह्मण्यध्यासात्तत्सत्यशब्दाईम् | यथेदंतायामध्यस्तं रजताभदंशब्दाईम् । एष लोको भवति व्याख्यातम् ॥ इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीमच्छं करानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनीषद्दीपिकायां ब्रह्म-आनन्द वल्ल्यां षष्ठोऽनुवाकः ॥ ६ ॥ अथ सप्तमोऽनुवाकः असद्वै सत्येऽध्यस्तं सत्यशब्दाहं सन्नामरूपकर्मात्मकत्वेन स्थवीयो बुद्धिविषयत्वात् । तद्रहितमसत्सत्यज्ञानादिलक्षणं ब्रह्म शावप्रसिद्धं विद्वत्प्रसिद्धं वा नामरूपक्रियाहीनं जगत्कारणं; सद्वा इति वक्तव्येऽसत्त्व भ्रमस्य नामरूपक्रियाहीनत्वेनोत्पादादिति कथनार्थमसदा इत्याह । इदं विविधप्रत्ययगम्यं विश्वम् । अग्रे विश्वोत्पत्तेः प्राक् । आसीद्वभूव । अविद्याशबलं ब्रह्म जगत्का- रणमेवाऽऽसीन्न तु कार्यजातमित्यर्थः । ततोऽसच्छदाभिधेयात्कारणात् । वै एव प्रसिद्धं वा । सत्सच्छदाभिधेयं स्पष्टनामरूपकर्म | अजायतोदपद्यत । तदविद्याशबलं जगत्कारणम् । अ- 'विद्ययात्मानमेकं चिदानन्दस्वभावम् । स्वयमात्माऽविद्याया आश्रयो विषयश्च । अकुरुत बहुधा कृतवान् । तस्मादात्मन आत्मनैव बहुधा करणात्तंदविद्याश्रयविषयभूतमानन्दात्मस्त्र- । ( १ ) ततोऽवि० -पाठः ।