पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ शंकरानन्दकृता [ ब्रह्म-आनन्द-वल्ली अनुता ३ समश्नुते व्याप्नोति । लुतिर्विचारार्था | उ अपि । अयं भावः – यद्यस्ति सत्यज्ञानादिलक्षणं ब्रह्म तर्हि प्राप्तव्यमविदुषाऽपि । न ह्यज्ञानसंशयविपर्ययैर्वस्तुनोऽन्यथा- त्वम् । सर्वात्मकं चेदविद्वान प्राप्नोति विद्वानपि न प्राप्नुयान्त्रियामकाभावात् । अथ नास्ति नर्त्तार्ह विदुषाऽपि न प्राप्तव्यम् । न हि नरविषाणादिकं तस्मिन्संदेहविपर्ययरहितज्ञानिनाऽपि प्राप्तुं शक्यम् । अथाशेष विशेषशून्यमप्यनेन प्राप्यते तर्ह्यविदुषा न प्राप्यत इति न नियामकं पश्याम इति । अनेनोक्त लोकार्थस्याऽऽक्षेपः कृतः । 1 आस्तां विद्वदविदुषोः प्राप्त्यप्राप्ती | ब्रह्मणोऽविद्वद प्राप्त्या यत्तस्य नास्तित्वमापादयि- तुमिष्टं तज्जगत्कारणत्वकथनेन पूर्वोक्तेन पुनः केनचिद्विशेषेणाभिधीयमानेन निराकुर्वन्सत्व- पक्षमर्थादादत्ते –स सूत्रमन्त्राभ्यां ब्रह्मत्वेनोक्त आत्माऽऽनन्दमयस्य कारणभूतः पुच्छभू- तश्च प्रसिद्धः । कथमसौ नास्तीत्यर्थः । ननु सतां चेतनानां किंचित्कारित्वं दृष्टमस्य तस्मि- न्मत्यस्तित्वं कथं श्रद्दधामीत्यत आह - अकामयत कामनामकुरुत । कामनाविषयमाह - बहु स्यां नाना भवेयम् । नानाभवनेऽप्युपायमाह - प्रजायेयोत्पथेय | इत्यनेन प्रकारे- मां कामनां कृत्वा । स कामी तपः पर्यालोचनमिदमनेनेत्थमित्यादिरूपम् । अतप्यतः मुज्यविषयमकरोत् । स कामुकस्तापसः । तप उक्तम् | तप्त्वोक्तविषयं कृत्वा कार्य- कारणादिकं प्रथमं विचार्य निश्चित्य चेत्यर्थः । अनन्तरमिदं विविधप्रत्ययगम्यं कार्यजातं भूतभौतिक चेतनाचेतनात्मकम् । सर्वे निखिलम् । असृजतोत्पादितवान् । सर्वशब्दा- माह – यदिदं किं । यत्किचेदं प्रसिद्धमस्तिनास्तीत्यादिप्रत्ययगम्यं यत्किमपि । तत्कार्यजातम् । सृष्ट्वोत्पाद्य । तदेव स्वसृष्टमेव । अयमेवकारो देहलीप्रदीपन्यायेन तदनुना प्राविशदित्यनेन च संबध्यते । अनु कार्यसृष्टिमन्वैवा प्रविष्टोऽपि सर्वत्रावस्था- नादाकाशवत्प्राविशत्प्रवेशमकरोदेव | प्रविष्टशब्दप्रत्ययविषयोऽभूदित्यर्थः । तदनु कार्य सृष्टमनु प्रविश्य प्रवेशं कृत्वा । किं तटस्थ एवायं सूत्रधारिवद्गृहं निर्माय तत्र प्रविश्य स्थितः । तथा चाऽऽत्मनो बहुभवनोपायः प्रजायेयेति दृष्टो विपरीत इत्याश- ङ्कच नेत्याह ~ सच्च तेजोबन्त्र रूपमपि । त्यच्च वाय्वाकाशरूपमपि । चकारौ तद्बुद्धिं समुचिनुतः | अभवत्स्पष्टम् । इदं क्रियापदं वक्ष्यमाणेष्वपि चतुर्षु पर्यायेषु संबध्यते निरुक्तं चानिरुक्तं च | निःशेषमुक्तं निरुक्तं, घटः पृथुवुध्नोदराकार इत्यादि । तद्विपरी- तमनिरुक्तं, जातीचम्पककेतकीकुसुमगन्धभेदादि । चकारौ पूर्ववत् । निलयनं चानिल- यनं च, आश्रयोऽनाश्रयश्च । चकारौ पूर्ववत् | विज्ञानं चाविज्ञानं च । स्मृतिसंशय- पर्ययनिश्चयादि विज्ञानं तत्कारणं वा चिन्मात्रं वा । तद्विपरीतमविज्ञानम् । चकारों पूर्ववत् । सत्यं चानृतं च, भावात्मकत्वे सति कश्चित्कुत्रचित्कथंचित्केनचिदपि बाधर- ( १ ) ०वि तुस ।