पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ षष्ठोऽनुवाकः ] तैत्तिरीयोपनिषद्दीपिका २५ तीयः कोशः । प्राणस्यापि मनसेतस्ततो नीयमानत्वाद्वालेनेव मृत्सेभवलीवर्दस्य । ततोऽनि- ·श्रयात्मिका ज्ञानशक्तिः प्राणात्मभूता मनआख्या तृतीयः कोशः । मनसोऽप्यनिश्चयात्मनो निश्चयपरतन्त्रत्वान्निश्चयात्मिका बुद्धिर्मनआत्मभूता चतुर्थः कोशः । बुद्धेरपि सुखपरतन्त्रत्वा- ·दवस्थात्रये कार्यकारणोपाध्यवच्छिन्नं सुखं पञ्चमः कोशः । तत्रापि प्रियमोदप्रमोदा जागरण. स्वप्नंजाः, आनन्दः सौषुप्तेऽव्याकृतोपाधिः । इतः परं भूत भौतिककार्यस्य कारणस्य चाभावा- -दकार्यकारणं ब्रह्म सर्वस्याऽऽधारभूतं कोशपञ्चकवाक्प्रवृत्तिकारणनिमित्तं प्रथमसूत्रेण सुचि- तम् । मन्त्रेण च व्याख्यातमुक्तवती श्रुतिरित्यर्थः । मनोमयार्थस्थले विज्ञानमयं, विज्ञानम- यार्थस्थले आनन्दमयं च पठित्वा शेषं समानपाठं पूर्ववव्याख्येयम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छंकर नन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां ब्रह्म-आनन्द वल्ल्यां पञ्चमोऽनुवाकः ॥ ५ ॥ अथ षष्टोऽनुवाकः आनन्दब्रह्मणोरभेदाद्ब्रह्माभिधान मेवाऽऽनन्दाभिधानमिति मन्वानः पठति – असन्नेवावि- बमान एव जनैरज्ञातोऽभिभूतश्चेत्यर्थः । स वक्ष्यमाणः । भवति स्पष्टम् । असविद्यमानं • खरविषाणसममित्यर्थः । ब्रह्माऽऽनन्दमयस्य पुच्छं कारणं चेत्युक्तेनासत्त्वप्रकारेण । वेद जानाति । चेद्यदि । असत्त्वज्ञानादनर्थमुक्त्वा सत्त्वज्ञानादर्थमाह-अस्ति विद्यते सर्वस्य कारणत्वेन सर्वात्मत्वेन च | ब्रह्मोकम् । इत्युक्तेन सत्त्वप्रकारेण | चेयदि | वेद जानाति । सन्तं विद्यमानं वाचा मनसा कायेन च पूज्यमित्यर्थः । एनं ब्रह्मास्तित्वज्ञानिनम् । ततो ब्रह्मास्तित्वज्ञानात्कारणात् । विदुर्जानन्ति । सर्वे जना इति शेषः । इतिर्मन्त्रसमाप्त्यर्थमा- नन्दमयकोशपरिसमाप्त्यर्थं वा पूर्ववत् । तस्यैष एव शारीर आत्मा | यः पूर्वस्य । तस्य पूर्वस्य विज्ञानमयस्य य आनन्दमय एष एव शारीर आत्मेत्यनयोर्व्याख्यातः पदार्थः । अथ कोशपञ्चकाधारब्रह्मास्तित्व नास्तित्वविज्ञान फलकथनानन्तरम् । अतो ब्रह्मणः सर्वात्मत्वं यतोऽस्तिनास्तिप्रत्ययौ च कर्तुं सुशकावस्मात्कारणात् । अनुप्रश्ना ब्रह्मणां- ऽस्तित्व नास्तित्वे च तज्ज्ञानिनो ब्रह्मप्राप्तावप्राप्तौ च संदेहमनु प्रभाः प्रष्टव्या ईप्सितार्थविषयाः शब्दसंदर्भाः । पठ्यन्त इति शेषः । उतापि । अविद्वान्त्रह्मणि संदेह विपर्ययज्ञानवान् । अमु- · मानन्दमयकारणभूतं पुच्छरूपं चास्तिनास्तित्वाभ्यामनिश्चितं वस्तुवृत्तेन | लोकं लोक्यमानं • स्वयप्रकाशत्वेन तज्ज्ञानिभिः । प्रेत्य परलोकमागत्य शरीरं परित्यज्येत्यर्थः । कश्चन कोऽपि । गच्छति प्राप्नोति । लुत्तिर्विचारार्था । आहो पक्षान्तरे, विद्वान्ब्रह्मणि संदेहविपर्ययरहितज्ञानवान् । अमुं लोकं प्रेत्य व्याख्यातम् । कश्चित्कोऽपि । सम- ( १ ) ० मज आ० । ( २ ) षुप्ते व्या - पाठः | ३ °थमं स ० ।