पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शंकरानन्दकृता अथ पञ्चमोऽनुवाकः विज्ञानं बुद्धिः । यज्ञं दर्शादिकं तनुते विस्तारयति । कर्माणि वैदिकानि श्रौतानि स्मार्तान्यग्निहोत्रसंध्यावन्दनादीनि, लौकिकानि च कृषिवाणिज्यादीनि । तनुते विस्तारयति । अपि च यज्ञविस्तारेणाभ्युच्चयार्थावपिचौ | विज्ञाने कर्मविस्तारादेर्विज्ञानं बुद्धिं देवा चागादयोऽन्यादयश्च । सर्वे निखिलाः । ब्रह्म सत्यज्ञानादिलक्षण ज्येष्ठमतिशयेन वृद्धं कार- मित्यर्थः । ज्येष्ठत्वं विज्ञानस्य ब्रह्मणश्च साम्यं तयोस्तादात्म्योपासनार्थमुकाम त्यवगन्त- व्यम् । उपासते ब्रह्मतादात्म्येनोपासनं कुर्वते । विज्ञानं ब्रह्म व्याख्यातम् । चेयदि । वेद देवव्य, तिरिक्तोऽपि जानात्युपासीतेत्यर्थः । तस्माद्विज्ञानब्रह्मोपासनात् । चेयदि | न प्रमाद्यति प्रमादं न गच्छति बहिर्मुखो, न भवतीत्यर्थः । शरीरे स्थूलशरीरे । पाप्मनो हिरण्यगर्भप्राप्तिप्रतिबन्धकारणानि | हित्वा परित्यज्य | सर्वान्निखिलान् | कामान्काम- नाविषयान् । हिरण्यगर्भतादात्म्येन समश्नुते सम्यक्प्राप्नोति । इतिर्मन्त्रसमाप्तौ विज्ञानम- यकोशसमाप्तौ वा पूर्ववत् । २४ [ब्रह्म-आनन्द वल्ली तस्यैष एव शारीर आत्मा | यः पूर्वस्य | तस्य पूर्वस्य मनोमयस्य यो विज्ञानमय एष एवं शारीर आत्मेत्यन्वयः । व्याख्यातः पदार्थः । अनेन मनस आत्मत्वं निवारितम् | 1 तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तर आत्माऽऽनन्दमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति | विज्ञानमयादुक्तात् । आनन्दमय आनन्दविकारः सोपाधिका- नन्द इत्यर्थः । प्रियं पुत्रादिदर्शनजन्यं सुखम् । मोदः पुत्रादिसंभाषणसहासनादिजन्यं सुखम् । प्रमोदः सहाऽऽसनादौ स्थितानामपि पुत्रादीनामन्यानुविधेयत्वजन्यं सुखम् । अभीष्टविषयस्य दर्शनं लाभो भोगश्च प्रियमोदप्रमोदा इत्यर्थः । आनन्दः सुखसामान्यं प्रियमोदप्रमोदेष्वनुगतं सुखं ब्रह्म - निरतिशय आनन्दो यस्य मात्रामुपजीवन्ति ब्रह्मादयः । यथा देहावयवाः पादयोः, प्राणभेदाः पृथिव्यामुदाने वा, वेदाश्च त्रयोऽपि मन्त्रन्ब्राह्मणरूपा अथर्वाङ्गिरःसु दृष्टकर्मसाधन- त्वेन, यथा बुद्धिभेदाः प्रथमजायां हिरण्यगर्भबुद्धौ च प्रतिष्ठितास्तद्वत्सुखसामान्यविशेषा निरतिशय सुखै कस्वभावे सत्यज्ञानादिरूपे ब्रह्मणि सर्वाधारे प्रतिष्ठिताः | स्थूलस्य देहस्याध्या- त्माविभूताधिदैवभेदभिन्नस्य ब्रह्मणः प्रथमकोशत्वम् । सूक्ष्मस्य स्थूलात्मभूतस्याज्ञान कार्यस्य क्रियाज्ञानशक्तेश्चतुर्था भिन्नस्य सकारणस्य कोशचतुष्टयत्वं च । सूक्ष्मोऽपि विभागः स्वयं प्राणनिमित्तं हि स्थूलशरीरस्य सर्वव्यवहारं मत्वा स्थूलशरीरात्मभूतः प्राणः क्रियाशक्तिर्हि- ( १ ) ख. °क्तो जा० ।