पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तैत्तिरीयोपनिषद्दीपिका । अथ चतुर्थोऽनुवाकः 66 अत्र हि मनोमयस्य चतुर्वेदवृत्ति प्राधान्यमुक्तम् । वेदाच ब्रह्मप्रकाशकत्वान ब्रह्मणो मिनाः | ततो वेभ्योऽभिन्नं सर्वस्य जगतः कारणं विशेषतश्च मनसः “ तन्मनोऽकुंरुत " इतिवचनान्म- नसाऽप्यगम्यरूपं ब्रह्म वदत्मनोमयं स्तौति - यतः सर्वस्य जगतः कारणाद्विशेषतच मनसः सत्यज्ञानानन्दरूपाद्ब्रह्मणः । वाचो यजुर्ऋक्सामादेशाथर्वाङ्गिरसरूपा अन्याय | निव- र्तन्ते – ब्रह्म वक्ष्याम इति संकल्प्य प्रवृत्तास्तस्मिन्ब्रह्माण प्रवेशमलममाना 'नेति' वदन्त्यो वाराङ्गना इव राजगृहाभ्याशायथागतं नितृत्त्य भ्रष्टसंकल्पा भवन्ति । निवृत्तिस्तु प्राप्तावप्राप्तौ च संकल्पितस्य दृष्टा । तथा कि प्राप्य निवर्तन्त इत्याशङ्कश्य नेत्याह-अप्राप्यालब्ध्वाऽऽ. नन्दमित्यन्वयः । ननु वागगम्यानामपि जातीचम्पक केतकी क्कु सुमादिगन्धभेदानां मनसाऽवग- तिर्यथा तथाऽस्त्वित्यत आह - मनसा यजुरादिपञ्चवृत्तिमता | सह समम् । आनन्दं हिरण्यगर्भस्याऽऽनन्दादप्यतिशयमनन्तमानन्दं ब्रह्मणः सत्यज्ञानादिलक्षणस्य | षष्ठीयं 'शिवा- पुत्रकस्य शरीरम्' इतिवव्याख्येया | विद्वान्साक्षात्कारवान् । साक्षात्कारेणापगताविशे द्वितीयाभावान्न बिभेति भयं न गच्छति । कदाचन कदाऽपि । यस्मादेतादृशं ब्रह्मास्य कारणं तस्मादतिश्रेष्ठो मनोमय इति भावः । इतिर्मन्त्रसमाप्तौ । अथवा मनोमयकोशपरिस- माप्तौं पूर्ववदवगन्तव्यम् । ४ चतुर्थोऽनुवाक: ] प्राणस्यैवैकदेशो मन इति शङ्कां वारयति-तस्येष एव शारीर आत्मा यः पूर्वस्य | पूर्वस्य प्राणमयस्य | यः प्रसिद्धो मनोमय एष एव शारीर आत्मेत्यन्वयः । व्याख्यातः पदार्थः । अनेन प्राणस्याऽऽत्मत्वं निवारितम् । तस्माद्वा एतस्मान्मनामयात् । अन्यो- ऽन्तर आत्मा विज्ञानमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य. पुरुषविधताम् । अन्वयं पुरुषविधः | तस्य श्रद्धैव शिरः । ऋतं दक्षिणः पक्षः । सत्यमुत्तरः पक्षः । योग आत्मा । महः पुच्छं प्रतिष्ठा । तदप्येष लोको भवति 1 मनोमयादुक्तात् । विज्ञानमयो बुद्धिविकारः । श्रद्धाऽऽस्तिक्यसंपन्त्रबुद्धिवृत्तिः । ऋतं शास्त्रार्थ- विषये मानसव्यापारविषया वृत्तिः । सत्यं तस्मिन्नेव वाकायाभ्यामनुष्ठीयमाने तद्विषया ऋत्तिः । योगः शास्त्रार्थविषये संदेहविपर्ययरहिता वृत्तिः । महः - अनया हि यागायनुष्ठाने मनोभास्वर- बुद्धितत्त्वं प्रथमजं महत्तत्त्वाख्यम् । प्राणमयार्थस्थले मनोमयं, मनोमयार्थस्थले विज्ञानमयं पठित्वा शेषं समानपाठं पूर्ववव्याख्येयम् || इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां ब्रह्म आनन्द - वल्ल्यां चतुर्थोऽनुवाकः ॥ ४ ॥ (१) बृ. उ. १. २. १. (२) वृ. ३. २. ३.६.