पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० शंकरानन्दकृता [ ब्रह्म आनन्द - वही ईष्टुः स्वयंप्रकाशमानात् । आत्मनोऽस्मच्छन्दप्रत्ययव्यवहारालम्बनाए । आकाशः शब्दगुण- •त्वेन प्रसिद्धोऽवकाशः संभूत उत्पन्नः । इदं पदं यथालिङ्गं यथावचनं पुरुषान्तेष्वनुवर्तते । आकाशादुक्तात् । वायुः शब्दस्पर्शगुणी नभस्वान् । वायोरुक्तादग्निः शब्दस्पर्शरूपगुणस्ते- जोधातुः । अनेरुक्कादापः शब्दस्पर्शरूपरसगुणाः द्रवात्मिकाः | अद्भय उक्ताभ्यः पृथिवी शब्दस्पर्शरूपरसगन्धगुणा कठिना भूमिः । पृथिव्या उक्ताया ओषधयः फळपाकान्ताः । ओषधीभ्य उक्ताभ्योऽन्नमदनीयं प्रसिद्धम् । अन्नादुक्तात्पुरुषः स्थूलदेहः पुरुषशन्दामिधेयः। इदानीमेवं पुरुषसुररीकृत्याऽऽत्मनः कोशपञ्चकातीतं रूपं विवक्षन्प्रथमं कोशानाह स उक्तः पुरुषः । वै प्रसिद्धो हस्तपदादिमानेष प्रत्यक्षः । पुरुषो व्याख्यातम् | अन्नरसमयः अन्नस्याद्यमानस्य यो रसः सारभूतः शुकशोणितरूपस्तस्य विकारोऽन्नरसमयः । तस्य पुरुषस्य पक्षिणः । इदमेव प्रसिद्धं मस्तकमेव । शिरो मस्तकम् । अयं दक्षिणो भुजः । दक्षिणो दक्षिणभागस्थः । पक्षः पत्रम् | अयं वामो भुजः | उत्तरो वामभागस्थः । पक्षः 'पत्रम् । अयं गलमारभ्याऽऽकटिस्थलं देशः । आत्माऽऽन्तरा षीः । इदं कटिस्थलादघःस्थितं 'पादद्वयम् । पुच्छं लाङ्गुलम् | लागूलस्य पुच्छत्व उपपत्तिः– प्रतिष्ठा प्रतितिष्ठत्यस्मिन्त्रि- प्रति प्रतिष्ठाचार इत्यर्थः । पक्षिणोऽपि पुच्छाधारत्वमस्माभिरदृष्टमपि प्रतिष्ठति वचनसाम- र्ध्यात्कल्पनीयम् । तदपि तस्मिनुक्तेऽप्यथें पक्षिण्येष वक्ष्यमाणः । लोको मन्त्रः । भवति स्पष्टम् ॥ इति श्रीमत्परमहंस परिव्राजकाचार्य श्री मच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनीषद्दीपिकायां ब्रह्म-आनन्द-चल्ल्यां प्रथमोऽनुवाकः ॥ १ ॥ अथ द्वितीयोऽनुवाकः अन्नाददनीयात् । वै प्रसिद्वात् । प्रजा जन्तवः प्रजायन्ते स्पटम् | याःकाश्च याः निखिलाः; स्वेदजाण्डजजरायुजोद्विज्जा इत्यर्थः । पृथिवीं ब्रह्माण्डान्तर्बहिर्वर्तिनीं भूमिं श्रिताः आश्रिताः । अथो अपि । अनजाः सत्योऽन्नेनै वादनायैव अद्यमानेन जीवन्ति प्राणान्धार- यन्ति । अथ जीवनकर्मक्षयानन्तरम् । एनन्नमग्निभूमि वकीटादिरूपम् | अपियन्त्यपिग- ·च्छन्त्यन्ने विलीयन्त इत्यर्थः । अन्ततोऽन्ते । तथा च न प्रत्यक्षविरोधोऽपि सति शरीरेऽन्नेऽ- ध्यस्यानभिधानात् । अन्नं चतुर्विधप्राणिजातशरीरस्थोत्पत्तिस्थितिलयकारणमदनीयम् । हि यस्मात् । भूतानां चतुर्विधानां प्राणिनाम् । ज्येष्ठमतिशयेन वृद्धं कारणमित्यर्थः । तस्मा. ततः । सर्वौषधं सर्वस्य प्राणिजातस्यौषधं क्षुत्तृड्रोगस्य वारणम् | उच्यते कथ्यते । इदानीमन्नमयस्य पक्षिवत्कालव्याधकदर्शीकृतस्य कारणान्नप्रशंसाप्रसङ्गेनाऽऽत्मज्ञानाभिमुख- ( १ ) वृद्धिका-पाठः ।