पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ प्रथमोऽनुवाकः] तैत्तिरीयोपनिषद्दीपिका व्याख्येयम् । अधीतमस्तु तेजस्वीति शेषः। किं बहुना ? मा विद्विषावहै प्राणिभिः पर- स्परं वा विद्वेषं मा करवावहै । ॐ शान्तिः शान्तिः शान्तिः। व्याल्यातम् । पूर्वप्रपाठकारम्भे सूचितवनविद्याया इदानी सूत्रेण फलमाहाधिकारिप्रत्तिसिद्धये ब्रह्म- विद्ब्रह्मसाक्षात्कारवान् । आमोति मोक्षं प्राप्तकण्ठस्थाभरणवत्प्राप्नोति । परं ब्रोदहमस्मात्य- विद्यातत्संस्कारशून्यत्वेनाखण्डैकरसमात्मानमवगत्य स एव भवतीत्यर्थः । तत्तत्र ब्रह्माणि. ब्रह्मविदः परप्राप्तौ च एषा वक्ष्यमाणमन्त्रभूता । अभ्युत्ता सर्वतः सर्वार्थप्रकाशकत्वेन कथिता । वेदपुरुषेणेति शेषः । सत्यमनृतनकारार्थविलक्षणम् । तर्हि भावरूपं जहमित्यत आह-शानं जडविलक्षणम् । यद्यमावभावविलक्षणो भावविशेषस्तहि घटादिकमपि तथेत्यत. आह-अनन्तं देशकालवस्तुपरिच्छेदशन्यम् । एतावत्येवोच्यमानेऽभावः स्यात्ततोऽस्य व्यव- च्छेदार्थमाह-सत्यमिति । सत्यमनन्तमित्युच्यमाने जडमपि स्यात्तब्याटस्यर्थ ज्ञानमित्याह । यद्यपि ज्ञानमनन्तमित्युच्यमाने न सत्यपदस्य कृत्यं ज्ञानस्यासद्विलक्षणत्वात् । तथाऽपि ज्ञान- मप्यसदिति सर्वासद्वादिनः संगिरन्ते । तत्पधाधिक्षेपार्थ सत्यमित्याह । अयं भावः-येनापि सर्वासत्त्वमङ्गीक्रियते तेनाप्यङ्गीक्रियत एव सत्त्वम् । अन्यथाऽसत्त्व- स्याप्यनुपपत्तेः । तयोनिरपेक्षत्वादिभ्यो हेतुभ्यः सत्वस्यैवाङ्गीकारः करणीयो नासत्व- स्यति । जडवैलक्षण्यं च स्वयंप्रकाशमानानन्दात्मन एवाविद्यायाः सकार्याया जाडये सति दुःखानात्मत्वदर्शनात् । एवं चेज्ज्ञानमित्येवास्तु, कृतमनन्तपदनापीति न मन्तव्यम् । अन्तः- करणाविद्याटत्योरप ज्ञानशब्दाभिधेयत्वात्तदेव ज्ञानमिदमपतिबुद्धिनिवारणार्थमनन्तपदस्यो- पयोगात्पदनयमिदं स्वरूपलक्षणमखैण्डकरसार्थं प्रकृष्ट प्रकाशचन्द्र इत्यादिवत् । इदानी लक्ष्यपदमाह लक्षणार्थसमर्थकम् । ब्रह्म वृहतेर्धातोरर्थभूतमभ्यधिकम् । आधिक्यं चासजडान्तवद्वैलक्षण्यमन्तरेण नोपपद्यते । तत इदं सत्यं ज्ञानमनन्तं योऽधिकारी वेद जानाति । निहितं निक्षिप्तं गुहायां बुद्धावधिदैवाधिभूताध्यात्मभेदेन व्यवस्थितायाम् । सा च कुत्रेत्यत आह-परम उत्कृष्टे भूताकाशात् , व्योमन्व्योम्न्यव्याकृत बुद्धिकारणेऽविशा- कार्यान्तःकरणवृत्तावभिव्यक्तमेवोक्तलक्षणं ब्रह्म सर्वोऽप्यधिकार्यहमस्मीत्यवगच्छतीत्यर्थः । स ब्रह्मज्ञानी । अश्नुते तादात्म्येन प्राप्नोति । सर्वान्कामानिखिलान्कामनाविषयान् । सह युगपत्कममन्तरेणेत्यर्थः । केन रूपेण युगपत्सन्किामान्प्राप्नोतीत्यत आह-ब्रह्मणा ब्रह्म- तादात्म्यरूपेण । ब्रह्मणोऽपि किं रूपमित्यत आह-विपश्चिता स्वयंप्रकाशमानज्ञानकरू- पेण । इतिर्मन्त्रपरिसमाप्तौ। ब्रह्मणः स्वरूपलक्षणमुक्त्वेदानी जगजन्मादितटस्थलक्षणं हदि कृत्वा मन्त्रेण संक्षेपेण व्याख्यातं सूत्रं विस्तरेण व्याकरिष्यंस्तत्त्वंपदार्थयारक्येनाऽऽत्मनो जगत्कारणत्वमाह- तस्मात्सत्यज्ञानानन्तलक्षणाद्रमणः । वै आत्मत्वेन स्मर्यमाणात्प्रसिद्धात् । एतस्माद्बुद्दे-