पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ द्वितीयोऽनुवाकः ] तंत्तिरीयोपनियरि त्वार्थं फलेन प्रलोभ्यान्नोपासनमाह- सर्वे निखिलं वै प्रसिद्धं ते वक्ष्यमाणाः । अन्नमदनीयम् । आप्नुवन्ति प्राप्नुवन्ति । य उपासकाः । अन्नमदनीयं । ब्रह्म सर्वस्मादधिकं ब्रह्मज्ञानेने- त्यर्थः । उपासत एकरूपेण प्रत्ययप्रवाहेण साक्षात्कुर्वते । पूर्वमन्त्रस्य सर्वभूतकारणत्वार्थ- मुक्तमिदानीं तदेव ब्रह्मतादात्म्योपासनोपपत्तये ब्रह्मसमानधर्मत्वं दर्शयितुं पुनः पठति - अन्न हि भूतानां ज्येष्ठम् । तस्मात्सर्वौषधमुच्यते । यथा ब्रह्म भूतानां ज्येष्ठमवगतं सद्भव- रोगोषधमुच्यते, तथा यस्मादनं भूतानां ज्येष्ठं तस्मात्सवषवमुच्यते । व्याख्यातच पदार्थः । अपि च यथा ब्रह्मणो भूतानि जायन्ते ब्रह्मणि तिष्ठन्ति च तथाऽन्नाददनीयात्, भूतानि चतुर्विधान्यण्डजादीनि । जायन्त उत्पद्यन्ते । जातान्युत्पन्नानि । अनेनादनीयेन । वर्धन्ते वृद्धिं गच्छन्ति । ततो ब्रह्मणा समत्वायुक्तमन्नस्य ब्रह्मणा तादात्म्येनोपासनमिति भावः । इदानीमन्नशब्दार्थमाह—अद्यते भक्ष्यते । भूतैरिति शेषः । अत्ति च भक्षयत्यपि । चकारः कर्मकर्तृव्युत्पत्त्योरन्नशब्दे समुच्चयार्थः । भूतान्यण्डजादीनि । तस्माद्यतोऽयतेऽत्ति च भूतानि ततः अन्नमन्त्रशब्दं तदन्नमुच्यते कथ्यते । इतिः प्रथमकोशपरिसमाप्त्यर्थः । तस्मात् । वै प्रसाद । एतस्मात्प्रत्यक्षात् । अन्नरसमयादन्नरसविकारा- •त्स्थूलदेहात् । अन्यः पृथग्भूतः । अन्तरोऽभ्यन्तरः । आत्माऽऽत्मशब्दाभिषेयः । प्राण- मयः प्राणविकारः । तेन प्राणमयेन । एष प्रत्यक्षः स्थूलो देहः । पूर्णः परिपूर्णः स प्रसिद्धः। वै स्मर्यमाणः । एष साक्षिप्रत्यक्षः प्राणमयः । पुरुषविध एव पुरुषाकार एव । भूषा- निषिक्तद्रुतताम्ररसो यथा तादृगेव न त्वन्यादृशः । तर्हि किं पुरुषः पुरुषान्तरसदृश इति चोभयमपि स्वतन्त्रमित्याशङ्कय नेत्याह—तस्य पूर्वस्य पुरुषविधतां पुरुषसदृशताम् । अनु पश्चात् । अयं तस्मादुत्तरः । पुरुषविधः पुरुषसदृशो न तु स्वतन्त्र इत्यर्थः । ततः पूर्ववदस्मिन्नपि कल्पना कर्तुं सुकरेति भावः । तस्य प्राणमयस्य | प्राण एवोच्छ्वासकारिणी प्राणटात्तरेव न त्वन्यत् | शिरो मूर्षा | व्यानो दक्षिणः पक्षः । अपान उत्तरः पक्षः । आकाश आत्मा । पृथिवी पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति । व्यानापानौ पूर्वप्रपाठके व्याख्यातौ । आकाश आ काशस्थः समानः । पृथिवी पृथिवीस्थः सर्वप्राणकीलभूत ऊर्ध्वगाम्युदानः अनेन हि सर्वे प्राणा प्रियन्ते स्ववृत्तिसंकोचेन । वाय्वधिकारादाकाश पृथिवीशब्दौ यथाकथंचित्समानोदानविषयौ नीतौ । अथवा मुख्यार्थतैवानयोः शब्दयोरस्तु । तथा च श्रुतेः कोशेष्वनास्थेति व्याख्येयम् । व्याख्यातमन्यत् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां ब्रह्म आनन्द-वल्यां द्वितीयोऽनुवाकः ॥ २ ॥ ( १ ) ब्रह्मध्यानेन–पाठः ।