पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ शंकरानन्दकृता [ ब्रह्म-आनन्द-बल्ली •सारत्वादकरणे दुःखप्राप्तेश्वेत्यर्थः । यत एवं तत एवमुक्त प्रकार सत्यादिकम् । उपासि- तव्यं नित्यं निरन्तरमा ब्रह्मज्ञानादा श्मशानाद्वाऽनुष्ठातव्यम् । एतदेव न त्वन्यनुष्ठेयमेव चैतदर्थं पुनराह-एवमु च एवमेव । चकारोऽवगतिसमुच्चयार्थः । अवगत्य चैतत्सत्यवदना - अभ्याख्यातेषु वर्तनान्तम् । उपास्यमुपासनीयं नित्यमनुष्ठेयमित्यर्थः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां शीक्षावल्लयां दशमोऽनुवाकः ॥ १० ॥ अथैकादशोऽनुवाकः अध्ययनव्याख्यानोपक्रमोपसंहारयोः शान्तिः पठनीयेति शिष्या िशक्षयितुं प्रपाठकान्ते 'वक्ष्यमाणविद्योपसर्गशान्वर्थमपि कृतायाः शान्तेः फलं दर्शयनुक्तामेव शान्तिमनुवाकेन पुनः पठति कानिचित्पदान्यन्यथयित्वा - शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः | नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतमवादिषम् । सत्यमवा- दिषम् । तन्मामावीत् । तद्वक्तारमावीत् । आवीन्माम् । आवीद्वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः । वदिष्यामीतिपदस्थलेऽवादिषमवत्विति पदस्थल आवीदिति विशेषः । शेषं शमित्यारभ्य शान्तिरित्यन्तं समानपाठं समानार्थम् । अवादिषमुक्तवानस्मि । आवीत्पालनमकरोत् । इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां शीक्षावल्लयामेकादशोऽनुवाकः ॥ ११ ॥ इति श्रीमत्परमहंसपरित्राजकाचार्य श्रीमदानन्दात्मपूज्यपादशिष्यस्य श्रीशंकरानन्दस्य कृतौ तैत्तिरीयोपनिषद्दीपिकायां पदार्थबोधिन्यां शीक्षावल्ली समाप्ता ॥ १ ॥ -- - अथ ब्रह्म आनन्द वल्ली अथ प्रथमोऽनुवाकः यदर्थं पूर्वः प्रपाठकः प्रवृत्तस्तां ब्रह्मविद्यां विवक्षुस्तस्यामत्यन्तमादराथं प्रकारान्तरेण पुनः शान्ति पठति — सह समम् । नावावाम् | अवतु साधनज्ञानेन ब्रह्म रक्षतु । सह नौ व्याख्यातम् । भुनक्तु फलज्ञानेन पालयतु । सह समं वीर्य विद्या तेजोऽतिशयो जीवन्मु- क्तिलक्षणस्तं करवावहै करवाव । तेजस्वि वीर्यवत्तमं नावावयोः | अधतिं गुरुमु खादवगतम् । अस्तु भवतु । अथवा तेजस्त्रिनावावां भवावेति शेषः । तेजस्विनोरिति वा