पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० दशमोऽनुवाक: ] तैत्तिरीयोपनिषद्दीपिका ब्राह्मणा त्राणत्वजात्याऽऽक्रान्ताः । तेषामुक्कानां ब्राह्मणानाम् | त्वयाऽस्मच्छिष्येण । आसनेनाऽऽसनोपलक्षितसत्कारकरणेन प्रश्वसितव्यमासनदानादिना स्वगृहमागतानां प्रश्वासः श्रमापनयः करणीयः । अथवा तेषामासन उपवेशने सभायामित्यर्थः । न प्रश्वसि- तव्यं प्रश्वासोऽपि न करणीयः, किमुत वार्तादिकम् । केवलं तदुतग्राहितया स्थेवमित्यर्थः । श्रद्धयाऽऽस्तिक्यबुध्या । देशकालपात्रसंपत्तौ सत्यां विभवानुसारेण गोभूहिरण्याशनपाना- दिकं यथोचितं देयं दातव्यम् । न विपर्यय इत्याह–अश्रद्धया नास्तिक्यबुद्धया । अदेयं न देयम् । श्रिया विभूत्या | देयं दातव्यम् । हिया लज्जया | देयं दातव्यम् । भिया भीत्या | देयं दातव्यम् । संविदा मैत्र्यादिकरणेन । देयं दातव्यम् । श्रियादिनिमित्तेषु दानेष्वास्तिक्यबुद्धिपुरःसरमेव देयं, न तु नास्तिक्यबुद्धयेति तात्पयर्थः । 2 अथ महदुपदेशानन्तरम् । यदि पक्षान्तरे । कथंचित्ते तव शिष्यस्य मदुक्तं कर्मजातमनु- तिष्ठतः । कर्मविचिकित्सा वा कर्मस्वग्निहोत्रादिषु संध्यावन्दनादिषु वा श्रौतेषु स्मातेंषु " उदिते जुहोति " "अनुदिते जुहोति” “सावित्रीं स्त्रीदेवतां पुरुषदेवतां वा” इत्यादिवाक्येभ्यो विचिकित्सा संशयः । वाशब्दो विपर्ययार्थी विपर्ययो वा । वृत्तविचिकित्सा वा वृत्तमाचारः कुलपरम्परागतस्तस्मिन्विचिकित्सा संशयः । यथा केषांचिन्मातुलमुताविवाहमांसभक्षणादिकं किंचिदपरेषां नेत्यादिदर्शनेन । वाशब्दो विपर्ययार्थः । वैदिके लौकिके च कर्मणि संशयोत्पादे विपरीतप्रवृत्तिर्वा पण्डितंमन्यत्वेनेत्यर्थः । स्याद्भवेत् । तदा ये प्रसिद्धा नीरागद्वेषा यथाशा- स्त्रानुयायिनः । तत्र तस्मिन्देशे, यत्र भवतो निवासः । ब्राह्मणा ब्राह्मणत्वजात्याऽऽक्रान्ताः । संमर्शिनः संमर्शो रागद्वेषौत्सुक्यराहित्येन शास्त्रार्थनिर्णयः, स येषां नित्यमस्ति ते संमर्शिनः । युक्ताः कर्मानुष्ठानयोगरता नित्यनैमित्तिकानुष्ठानशीला इत्यर्थः । आयुक्ता अ–परप्रयुक्ताः शानार्थस्य वचनेऽनुष्ठाने चान्यभीतिरहिता इत्यर्थः । अलूक्षा अरुक्षाः कर्णकठोरवचनपरानि- ष्टकारिबुद्धिरहिता इत्यर्थः । धर्मकामा धर्म एव कामोऽभिलाषो येषां ते धर्मकामाः । स्यु- र्भवेयुः । यथा येन प्रकारेण । ते यथोक्तविशेषणविशिष्टा ब्राह्मणाः तत्र तस्मिन्कर्माणि वृत्ते वा । वर्तेरन्टत्तिं कुर्वीर न्यथाऽनुतिष्ठन्तीत्यर्थः । तथा तेन प्रकारेण । त्वमपि तत्र कर्माणि वृत्ते वा । वर्तेथा हत्तिं कुरु तद्वत्तदनुतिष्ठेत्यर्थः । अथ – अथवा तेष्वभ्याख्यातेष्वभ्युक्ता दोषेण संदिह्यमानेन संयोजिताः केनचित्तेषु | व्याख्यातमन्यत् । एष ' सत्यं वद' इत्यारभ्य तथा 'तेषु वर्तेथाः' इत्यन्त आदेशः कर्तव्यार्थः सत्या- दिलक्षणः । तत्कथनेनैष उक्तार्थो वाक्यसंदर्भ उपदेशः पित्रादिवचनरूपः । एषोता वाक्यसंततिर्वेदोपनिषद्वेदरहस्यबुद्धिः । एतदुक्तं वाक्यजातम् | अनुशासनं राशामि- वाऽऽज्ञाभूतम् । एतदर्थाननुष्ठाने महतो दुःखस्य प्राप्तर्विधीयमानत्वात्सस्नेहमुच्यमानत्वाद्वेद- ( १ ) ऐ. बा. ५. ५.४. ( २ ) ?