पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० दशमोऽनुवाक: ] तैत्तिरीयोपनिषद्दीपिका १५ सुमेधाः | अमृतोक्षितः - अमृतेन गुरुकटाक्षेप्णोक्षितः सेचितः, अमृतो मरणशन्योऽक्षितो विकारान्तरहीनो वा तथा मम स्यादिति । अध्याहाराभाव सात्म्यज्ञानं कीर्तिरप्यहमस्मीति व्याख्येयम् । श्रुतिराह इति अनेन प्रकारेण । स्वधर्मनिष्ठस्याऽऽर्षदर्शनसंपन्नस्य त्रिशङ्को- राध्यात्मिकाधिभौतिकाधिदैविका दुःखस्वरूपाः शङ्को यस्य स त्रिशङ्कः | तस्य भृशं सं- सारतापैः संतप्तस्य परमवैराग्यं प्राप्तस्येत्यर्थः । त्रिशकुनामो वा । वेदानुवचनम् अहं संसारस्य प्रेरयिता, यशः ( स्य) संसारोऽविद्यया, वस्तुतस्त्वानन्दात्मस्वरूपो ब्रह्मसाक्षा- त्कारवान्गुरुकटाक्षपातेनेति वेदनं वेदः | तमनु पश्चाद्वचनम् अहं 'वृक्षस्य' इत्यारभ्य 'अमृतोक्षितः' इत्यन्तं वेदानुवचनम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छंकारानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां शीक्षावल्ल्यां नवमोऽनुवाकः ॥ ९ ॥ अथ दशमोऽनुवाकः सत्यादीन्यऋष्ठेयान्यन्तर्मुखेन (ण) मुमुक्षुणा । तानि किं सति मुमुक्षुत्व एवानुष्ठेयानि नेतर- थेत्याशङ्कय मुमुक्षुत्वेऽमुमुक्षुत्वे वोपनयनमारभ्याऽऽब्रह्मसाक्षात्कारमाश्मशानं वा स्त्रवर्णाश्रमो- चितानि कर्माणि करणीयानी त्येतदर्थं गुरुकुलात्प्रवसतो ब्रह्मचारिण इदमुपदेश्यमाचार्येणेत्यभि- प्रायेणाऽऽह–वेदमृगाद्यन्यतमं, स्वशाखामात्रं वा । आदरो नैकवचने द्वौ त्रींचतुरो वा साङ्ग- वियोपविया (वेदोपवेदा ) न् । अनुच्य तदुपयनमनत्वा । आचार्यः शिष्यमुपनीय कल्प- रहस्यादिसहितस्य वेदस्य वक्ता । अन्तेवासिनं छायावदपरित्यागिन माह्वानेनाध्ययनस्य कर्ता- रमित्यादिशिष्यलक्षणसंपन्नं शिष्यमनुशास्ति वेदवचन मनुशासनं करोति अनुशासनं कुर्या- दित्यर्थः । सत्यं यथाप्रमाणदृष्टं हितं प्रियं च वचनम, वदोचारय । धर्म स्ववर्णाश्रमवि हितं कर्म चर आचर | स्वाध्यायान्नित्यस्वाध्यायात्, मा प्रमदः प्रमादं मा कार्षीः । आचार्याय महां, प्रियमिष्टं, धनं गोधनादि, आहृत्य समस्तविद्यानिष्क्रयार्थ, सदृशान्दारा- स्वीकृत्य प्रजातन्तुं पुत्रपौत्रादिसंततिं, मा व्यवच्छेत्सीर्व्यवच्छेदं मा कार्षीः | पुत्रपौत्रा- त्राय दृष्टाथाँऽदृष्टार्थ श्रोयमः करणीय इत्यर्थः । ● सत्यादीनां कर्तव्यतोक्ता, तेषामन्येषां च करणीयता, तेषामेव कदाचिद्वारणीयतेति बुद्धिं वारयितुमाइ – सत्यादुक्तान्न प्रमदितव्यं प्रमादो न करणीयः । निरन्तरं तदेवानुष्ठेयमित्य र्थः। वर्मादुक्तान प्रमदितव्यं व्याख्यातम् । कुशलात्क्षेमकरात्कर्मणोऽदृष्टार्थान्न प्रमदितव्यं व्याख्यातम् । भूत्यै भूतैरैश्वर्यात् । न प्रमदितव्यं व्याख्यातम् । स्वाध्यायप्रवचनाभ्यां नित्यस्त्राध्यायाधीताविस्मृतौ दृष्टार्थाध्यापनार्थाभ्याम् । न प्रमदितव्यं व्याख्यातम् । यद्यपि 'स्वाध्यायान्मा प्रमदः' इत्यनेवैव स्वाध्याये प्रमादरादित्यं प्राप्तं तथाऽपि सर्वेभ्यः कर्तव्येभ्यः (१) °वे सर्वात्मज्ञा॰पाठः । (२) °स्मृतिदृ॰ पाठः | (