पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ शंकरानन्दकृता [ शीक्षावडी णाघ्याहरणीयम् | सर्वत्र च स्वाध्यायप्रवचनयोः पाठस्तत्रात्यन्तमादरदर्शनार्थः । शेषमेकाद- शस्वपि पर्यायेषु समानपाठमृतमिति पर्यायवव्याख्येयम् । इदानीम्सृषीणां मतान्यत्रोपन्यस्यति—–— सत्यमुक्तम् । इति — एव । सत्यवचाः सत्य- वादी, नामधेयं वा; राथीतरो रथीतरगोत्रः । अनुष्ठेयं मनुत इति, अत्र वक्ष्यमाणेऽपि यथा- योगमध्याहरणीयम् । तप इति तप एव । तपोनित्यस्तपति नित्यं वर्तत इति नामधेयं वा; पौरुशिष्टिः पुरु बहुवेलं मातृपित्राचार्यैः शिष्टः पुरुशिष्टस्तस्यापत्यं पौरुशिष्टिः । पूर्वपक्षमुक्त्वा सिद्धान्तमाह — स्वाध्यायप्रवचने । व्याख्यातम् । एव न त्वन्यत्सत्यं तपो वा । इतीत्थम् । नाको नामतः मौद्गल्यो मुदं शास्त्रार्थनिर्णयरूपां गलति स्त्रवतीति मुद्गलस्तस्यापत्यं मौद्गल्यः । अस्य पक्षस्य सिद्धान्तत्वमुपपादयति – तत्स्वाध्यायप्रव चनानुष्ठानम् | हि यस्मा तप उक्तमुपलक्षणमिदं सत्यस्यापि । तस्मादिदमेवाधिकमिति शेषः । अस्य पक्षस्याऽऽदरार्थं द्विवचनम् | तद्धि तपो व्याख्यातम् ॥ - इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां शीक्षावल्यामष्टमोऽनुवाकः ॥ ८॥ अथ नवमोऽनुवाकः ननु – अध्ययनस्य ब्राह्मण्यजातिप्रयुक्तत्वेन कर्तव्यतया सिद्धत्वान्न तस्य करणीयता; अ- ध्यापनस्य चानित्यत्वान्न तस्यापि । नित्यः स्वाध्यायः स्वाध्याय प्रवचनशब्दाभ्यां प्रतिपा- योऽतः शिष्यते । न चासावपि कर्तुं शक्योऽनेककार्यव्यग्रत्वात् । न चाशक्यं विद्धाति विधिः। ततः स्वाध्यायप्रवचने एवेति यत्किचिदेतदित्याशङ्कय तन्मन्त्रमात्रं नित्यं जपनीयम् । अन्यत्तु यथाशक्ति | तावताऽशक्यत्वाभावादित्यभिप्रायवानाह–अहं नित्यस्वाध्यायस्य कर्ता । वृक्षस्योर्ध्वमूढस्यावाक्शाखस्य वनस्पतेरधिदैवादिभिन्नस्य स्थूलसूक्ष्मशरीरस्ये त्यर्थः । रेरिखा प्रेरयिता | कीर्तिः स्ववर्णाश्रमोचितानुष्ठानकारित्वेन विद्यया चेहामुत्र पुण्यं यशः | पृष्ठमत्युच्छ्रितं शृङ्गं लोकद्वयदर्शनस्य विषयः । गिरेरिव पर्वतस्य मेरोर्यथा तथा । मम स्यादिति शेषः । ऊर्ध्वपवित्र ऊर्ध्वं कारणं पवित्रं ब्रह्म यस्य मम देहादि- संघातस्य सोऽहमूर्ध्व पवित्रो वृक्षोऽप्यहमेवेत्यर्थः । वाजिनीव वाजोऽनं देवानां रोहि- तादिरूपं प्रसिद्धमस्मदादीनां चास्यास्तीति वाजी सविता तस्मिन्यथा । स्वमृतं सृष्टमृतं रोहितादिरूपमानन्दात्मस्वरूपं वाऽस्मि । द्रविणं वनं हिरण्यादिरि ( कं ) वाऽऽनन्दा- त्मस्वरूपम् । सवर्चसं वर्चस्तेजो ब्रह्मसाक्षात्कारस्तेन सह वर्तत इति सवर्च एव सवर्चसम् । सुमेधाः सुष्टु मेधा 'तत्त्वमंसि' 'अहं ब्रह्मास्मि' इत्यादिश्वतधारणरूपा यस्य स (१) छां. उ. ६. ८. ७. (२) बृ. उ. १.४.१०.