पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ अष्टमोऽनुवाकः ] तैत्तिरीयोपनिषदीपिका शब्दाभिषेयानृग्विशेषान् । शसन्ति पठन्ति यज्ञकर्मण्यन्यत्र च । ओमिति व्याख्यातम् । अध्वर्युर्याजुष ऋत्विक् । प्रतिगरं गरणं वाङ्मनः कायानां विहितं व्यापारमार्थं सर, तेन संबद्ध प्रतिगरः कर्म, तं प्रति कर्मणि कर्मणीत्यर्थः । गृणाति शब्दं करोति । प्रतिगरं यजुर्विशेषं वा प्रतिगृणाति पठति । अस्मिन्पक्ष ओमित्युच्चार्येति शेषः । ओमिति व्या ख्यातम् । ब्रह्मा —ऋत्विग्विशेषः । प्रसौत्यनुजानाति । ओमिति व्याख्यातम् | अग्निहोषं जुहोतीत्युक्ते होत्रादिना समीपस्थोऽग्निहोत्रं नित्यं काम्यं वा कर्मानुजानाति जुहुषीत्यनुज्ञां प्रयच्छति । ओमिति व्याख्यातम् | ब्राह्मणोऽध्येष्यमाणः । प्रवक्ष्यन्पाठार्थं प्रकर्षेण वचनं करिष्यन् । आह ब्रूते । ओंकारवदने कारणमाह - ब्रह्म वेदम् । उपानवानि स्वाधीनत्वलक्षणेन सामीप्येन प्राप्नवानि । इति – अनेनाभिप्रायेण । ननु किमभिप्रायमात्रमित्याशङ्कय नेत्याह—–— ब्रह्म वेद- मेव । उपाप्नोति स्वाधीनत्वसामीप्येन प्राप्नोत्येव न त्वभिप्रायमात्रम् । अत्र फलं च ब्रह्म- ज्ञानोत्पादद्वारेण सर्वात्मत्वप्राप्तिरनुक्ताऽपि द्रष्टव्या । अथवा ' ओमिति ब्राह्मणः' इत्या- दिकं फलवचनम् । अस्मिन्पक्षे ब्राह्मणः साधनचतुष्टयसंपन्नः संन्यासी प्रवक्ष्यन्प्रकर्षेण ' तत्त्वमसि ' ' अहं ब्रह्मास्मि' इत्यादिवचनजातं वक्ष्यन्त्रह्म सत्यज्ञानादिलक्षणम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां शीक्षावल्यां सप्तमोऽनुवाकः ॥ ७ ॥ अथाऽष्टमोऽनुवाकः --- ननु – एवमप्यासनैर्यस्थया दखता न स्यादस्ति च मुमुक्षा, किं तेन करणीयमित्या- शङ्कय कर्मैव तेन करणीयमित्याह - ऋतं च यथाशास्त्रकर्मविषयं ज्ञानम् । चकारः स्वाध्या- यप्रवचनाभ्यां समुच्चयार्थः । स्वाध्यायप्रवचने च स्वाध्यायोऽध्ययनं प्रवचनं ब्रह्मयज्ञोऽध्या- पनं वा । चकारोऽनयोरुक्तेन समुच्चयार्थः । सत्यं मनःकायाभ्यामनुष्टीयमानं कर्म सत्यवचनं वा | तपः कृच्छ्रचान्द्रायणादिरूपं स्वधर्मवृत्तित्वं वा । दमो बालेन्द्रियनिग्रहः । शमोऽन्तः- करणोपशमः । अग्नयत्रयः पञ्च वा । अग्निहोत्रं नित्यं श्रौतं कर्म सायंप्रातहॉमोपलक्षितम्। अतिथयोऽज्ञातकुलगोत्रा ब्राह्मणादयोऽशनायथं दर्शादितिथिमन्तरेणापि गृहान्समागताः । अतिथिशब्दितसोमोपलक्षितयागा वा । मानुषं पुत्रादिविवाहादौ बन्ध्वादीनां यथोचितं पूज- नम् । प्रजा पुत्रादिका | प्रजनः प्रजननमृतौ भार्यागमनमित्यर्थः । प्रजातिः पौत्रायुत्पत्तिः पुत्रायानुरूपा प्रिया च भार्या तादृशश्च वरः कन्यायै । एवं पौत्रपौत्र्यादेरपि संपादनीयमि- त्यर्थः । अत्रर्तमित्यादौ संपादनीयमिति द्वादशस्वपि पर्यायेष्वेकवचन द्विवचनबहुवचनानुसारे- ( १ ) छां. उ. ६. ८. ७. (२) बृ. उ. १. ४.१०.