पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शंकरानन्दकृता [ शीक्षावल्ली चर्मादिपञ्चकं धातुपाङ्गम् । एतदुक्तं पृथिव्यादिकं मज्जान्तम् । अधिविधायाधिकृत्य पञ्चकमुपलभ्येत्यर्थः । ऋषिवेंदो वेदार्थद्रष्टा वा । अवोचढुक्तवान् । पाङ्गं पञ्चाक्षरप- च्छिन्दोरूम | वै प्रसिद्धं पञ्चसंख्यात्वेन | इदं पृथिव्यादिकम् । सर्वे निखिलं पानैव पञ्चसंख्याक्रान्तेनैव पाङ्कं पञ्चसंख्याक्रान्तम् । स्पृणोति प्रीणयति । पोष्यपो- षकादिकं सर्वं पाङ्क्रमित्यर्थः। पाङ्कं वा इदं सर्वं यतस्ततः पाङ्केनैव पाङ्कं स्पृणोतीति योजनीयम् । इत्यनेन प्रकारेण । स्वयं पञ्चात्मको विश्वं चेदं पञ्चात्मकं सर्वेणाभित्रं पञ्चा- त्मकं स्वात्मानं जानतस्ताद्गुग्विराप्राप्तिफलमर्थसिद्धमिति श्रुतिनक्तवती ॥ इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां शीक्षावल्यां षष्ठोऽनुवाकः ॥ ६॥ अथ सप्तमोऽनुवाकः पञ्चसंख्यासामान्यात्पाङूमिदं सर्वमित्युक्तं, तेन सर्वात्मकं ब्रह्म हृदिस्थं ब्रह्मणश्च को- शभूत ओंकारः पूर्वमुक्तः । इदानीं तत्कोशत्वोपपादनार्थं पुनरोंकारस्योपासनमाह — ॐ ब्रह्मवाचकः । इतिरौकारानुकरणार्थः । ब्रह्म वाच्यम् । अभिधानाभिधेययोस्तादात्म्म्यावा- चक्रे वाच्यस्य दृष्टिः करणीया | शाळग्राम इव विष्णोरित्यर्थः । ननु सति साम्य ओंकार- ब्रह्मणोरोंकारे तदृष्टिः क्रियमाणोचिता स्यादन्यथाऽन्धगोलाङ्गुलन्यायमात्रमित्यत आह-ओ- मिति । व्याख्यातम् । इद ५ सर्वे विविधप्रत्ययगम्यं कार्यकारणादि निखिलम् । अयम- र्थः - शब्दप्रपञ्चः सर्वोऽप्योंकारेण व्याप्त इति नात्रोपपादनीयं किंचिदस्ति । शब्दार्थयोस्ता- दात्म्ये विप्रतिपत्तावपि वाचकत्वलक्षणेऽविनाभावे न विवादः । यथेनाविनाभूतं तत्तस्य कार्यम्,. यथा धूमाग्न्योः । कार्यकारणयोः साम्यं यथा मृद्धटयोः । तत ओंकारस्याऽऽत्मनश्च सर्वा- भित्रत्वादस्ति साम्यमित्योंकारोपासनार्थमोंकारो लौकिकवैदिकव्यवहारकारणत्वेन स्तूयते । ओमिति व्याख्यातम् । एतदोंकाराभिधानम् । अनुकृति गच्छ, पिन, पठेत्यादिवचन- मनु भृत्यादेरङ्गीकारवचनमोमितिकरणमनुकृतिराह । ह किल | स्म प्रसिद्धम् । वै स्मर्यमाणम् । अपिरभ्युच्चये । न केवलं लौकिकव्यवहारकारणमोकारः, किंतु वैदिकस्यापि । 'ओ' ओमित्यर्थः । श्रावय हविषः परित्यागाथं मन्त्रं देवान्भावय | इति – अनेन प्रकारेण । उक्ते वैदिके कर्मण्वृत्विज आश्रावयन्ति समन्ताद्देवान्मन्त्रश्रवणं कारयन्ति । आमिति व्याख्यातम् । सामानि गीतिसहिता ऋचः | गायन्ति यज्ञकर्मण्यन्यत्र च पठन्ति । औं व्याख्यातम् । शो शं मुखं तदेवो ५ शोमित्यनुकरणार्थः । शस्त्राणि शत्र- । ( १ ) यथा कस्यचिदन्धस्य स्वेप्सितस्थलं गन्तुमशक्नुवानस्य हस्ते केनचिदुष्टेन बलीवर्दस्य लागुलं दत्त्वैष त्वामीप्सितस्थलं प्रापयिष्यतीत्युक्त्वा प्रस्थापितोऽन्धो मोक्षभयाद्गोपुच्छं दृढं गृह्णन्, लाङ्गूलग्रहणम - सहमानेन शर्करराकण्टकोपलादिषु जवात्प्रधावमानेन गवा व्यापाद्यते स एष गोलाङ्कलन्यायः ।