पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ षष्ठोऽनुवाक: ] तैत्तिरीयोपनिषीपिका " चीनयोग्यः सर्वेभ्य उत्कृष्ट इत्यर्थः । तस्य संबोधनं प्राचीनयोग्य | उपास्स्व महोव्याहृति- रूपमिदमहमस्मि ममाङ्गानीतरा यथोक्ता व्याहृतयः इति; शास्त्रान्तरप्रसिद्धं वा “ मनो- मयः प्राणशरीरः ” इत्यादिरूपं व्याहृत्युपासनाव्यतिरिक्कमुपास्स्व विजातीयप्रत्ययशन्येन सजातीयप्रत्ययप्रवाहेण यथोक्तषमं साक्षात्कुर्वित्यर्थः । अथवा को हिरण्यगर्भप्राप्तौ पुरुषार्थ इत्याशङ्कच व्याख्येयम् । ततो हिरण्यगर्भ प्राप्तेरनन्तरमुत्पन्नब्रह्मज्ञान एतद्वक्ष्यमाणं ब्रह्म भवति । अस्मिन्पक्ष इत्यारभ्य प्राचीनयोग्यपितुर्वाक्यं द्रष्टव्यम् || इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां शीक्षावल्ल्यां पञ्चमोऽनुवाकः ॥ ५ ॥ अथ षष्ठोऽनुवाकः चतसृणां व्याहतीनामुपासन उक्त तदनन्तरभाविनीं पञ्चसंख्यामुररीकृत्य पञ्चभू- तात्मकविराट् प्राप्तिफलं पाङ्कमुपासन माह-पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशः, स्पष्टाः पृथिव्यादयः पञ्च पदार्थाः । त्रिलोकी प्राच्यादयश्चतस्त्र आग्नेय्यादयश्चेति पञ्चकं लोक- पाङ्गम् | अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि, स्पष्टा अग्न्यादयः पञ्च पदार्थाः | इदं देवतापाङ्गम्। आपो नीराणि । ओषधयो त्रीयायाः | वनस्पतयोऽपुष्पाः फल- वन्तोऽश्वत्थादयः । आकाशो भूताकाशः । आत्मा भौतिको देहोऽविदैवादिः । इतिः स माप्तौ । अधिभूतं भूतानि पृथिव्यादी न्यधिकृत्योच्यमानमधिभूतम् । लोके देवानामपि भूत- विकारत्वेन भूततत्त्वमङ्गीकृत्याधिभूतमित्युपसंहारः । अथाधिभूतपाङ्ककथनानन्तरम् | अध्यात्ममात्मानमिमं स्थूलदेहमविकृत्य । पाङ्क्मु- च्यत इति शेषः। प्राण उच्छ्वासकर्मा क्षुत्तडधिकारी । व्यानः प्राणापानयोः संधिस्थो वीर्य- कर्महेतुः । अपानो निःश्वासकर्मा मलमूत्रादिविसर्गहेतुः । उदानः सर्वसंधिषु कीलव- दवस्थितः।यच्चलने हिक्कादिः प्राणापानादीनामध्यनव स्थितिः सर्वप्राणबन्धनमूर्ध्वगामी मरण- हेतुः । समानोऽशितस्य पीतस्य चाऽपादमस्तकं समं यथायोगं नयनं करोतीति समानः । इदं प्राणादिपञ्चकं वायुपाङ्कम् । चक्षू रूपग्राहकमिन्द्रियम् । श्रोत्रं शब्दग्राहकमिन्द्रियम् । मनः साधारंणज्ञानकारणम् । वाग्वागिन्द्रियमभिवदनकारणम् | त्वक्स्पशॉपलब्धि- कारणमिन्द्रियम् । इदं चक्षुरादिपञ्चकमिन्द्रियपाम् । चर्म त्वगिन्द्रियाधिष्ठानमापादमस्तकं व्याप्य व्यवस्थितम् । मांसमन्त्रस्य मध्यमः परिणामो मृदुलो घनीभूतः । स्नावा धमनिः, जातावेकवचनत्वात्राय इत्यर्थः । अस्थि प्रसिद्धं वेतं शरीरशालावंशस्तम्भादिरूपम् । मज्जा रुविरमांसयोरन्तरावस्थोष्णकालीन शीतल प्रदेशस्थघृताकाराऽस्नोऽन्तर्गता । इदं ( १ ) छा. उ. ३.१४.२ ( २ ) रणं का०-पाठः ।