पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० शंकरानन्दुकृता [शीक्षावल्ली यत्रासौ केशान्तो विवर्तते तत्र प्रतिष्ठिताग्रति शेषः । तत्रोपपत्तिर्व्यपोह्य शीर्षकपाले विनिर्ग- ता या सेन्द्रयोनिरित्यन्वयः। अनया कार्यं ब्रह्म गच्छन्गच्छतीत्यर्थः । अनेन गमने मार्ग उक्तः । . इदानीं तत्तद्व्याहत्यात्मकस्तेषु तेषु व्यातिप्रकारेषु स्थित्वा देवदत्तं गृहन्नध्यात्मपरिच्छे दशून्यः स्वाराज्यं करोतीत्याह – भूरिति । उक्तोऽयों न्याहृतेः । इति शब्दश्च व्याहृत्य- नुकरणार्थः । अग्नौ प्रथमव्याहत्यात्मके । प्रतितिष्ठति प्रतिष्ठां प्राप्नोति । इदं पदं वक्ष्यमा- माणेष्वपि त्रिषु पर्यायॆषु योजनीयम् । भुव इति व्याख्यातम् । वायौ द्वितीयव्याहृतिरूपे । सुवरिति व्याख्यातम् । आदित्ये तृतीयन्याहृतिरूपं । मह इति व्याख्यातम् । ब्रह्माण कायें ब्रह्मण्यन्तःकरणशुद्धौ ब्रह्मज्ञानोत्पादात्परे ब्रह्मणि वा । अत्र यद्यपि मह इति चन्द्रम- सीति वक्तव्यं प्रायपाठात्तथाऽप्युपास्याङ्गाङ्गिजातं सर्वं व्याप्नोतीत्येतदर्शयितुमनास्थावादेन चन्द्रमसं परित्यज्य मह इति ब्रह्म तद्ब्रह्मेति वोररीकृत्य मह इति ब्रह्मणत्याह । - व्याहत्युपासानामात्रान्निर्गुणत्रह्मप्राप्तिरिति शङ्का निवारणार्थमाह - आप्नोति प्राप्नोति । स्वाराज्यं स्वयमेव राजते दीप्यत इति स्वराद् तस्य भावः स्वाराज्यम् । ननु केवलब्रह्मप्रा- प्तिरप्येतादृश्येवेत्यत आह–आप्नोति प्राप्नोति । मनसस्पतिं मनःशब्दोपलक्षितस्य ज्ञान- क्रियाशक्तेरन्तःकरणस्य पतिं पालयितारम् । स्वोपाधिकत्वाभिमानेन हिरण्यगर्भमित्यर्थः । तं प्राप्य क्रियाज्ञानकरणानां तद्वत्प्रभुर्भवतीत्याह – वाक्पतिर्वागिति कर्मेन्द्रियमात्रस्योप- लक्षणम् । वाचः पतिर्वाक्पतिः । चक्षुष्पतिः श्रोत्रपतिः स्पष्टम् । चक्षुःओत्रयोर्ग्रहणं त्व- ग्वाणरसनानामुपलक्षणार्थम् । विज्ञानपतिर्विज्ञानं बुद्धिस्तस्य पतिर्विज्ञानपतिः | विज्ञान- शब्दोऽव्याकृतव्यतिरिक्तस्य सर्वस्योपलक्षणार्थः । अपेक्षितं सर्वमप्युक्त्वेदानीं ' महो ब्रह्म तस्मिन्त्रयं पुरुष: ' इत्यादिनोपास्यत्वेनातं यदुत्पन्नब्रह्मज्ञानैः प्राप्यमङ्गीभूतं वक्तुमारभते संक्षपेण प्राचीनयोग्यस्य पितृरूपा श्रुतिः स्वपुत्रस्योपासनार्थम् । एतदेतस्मिन्व्याहृत्युपासने प्रधानभूतम् । ततो भवति तस्मात्का- रणाद्भवति । उक्तमिति शेषः । आकाशशरीरमाकाशोऽव्याकृतं शरीरमिव एवं यस्य तदा काशशरीरम् | ब्रह्म तद्ब्रह्मेति - महाव्याहृत्यभिन्नं यदुक्तं देशकालवस्तु परिच्छेदशून्यम् । स- त्यात्म सत्यो बोधरहित आत्मा चिदानन्दस्वभावो यस्य तत्सत्यात्म | प्राणारामं प्राणे- वारमत इति प्राणारामं सर्वप्राणि स्थितमित्यर्थः । तटस्थत्वशङ्कां वारयति मनुआनन्दं मनस आनन्दो यस्य तन्मनआनन्दम् । तर्हि दुःखीत्याशङ्कयाऽऽह-शान्तिसमृद्धं शान्तिदुः- खोपरतिस्तया समृद्धं संपन्नं सर्वदुःखशन्यमित्यर्थः । नन्वस्तु सर्वत्रोत्कृष्टं तथापि सर्वांभेदान्मरणमप्यस्यैवत्यत आह - अमृतं मरणशन्यम् । यदभेदादन्यस्यापि मरणमपगच्छति कुतोऽस्य कालकालस्य मरणमित्यर्थः । इत्यनेन प्रका रेण तदहमस्मीत्यवगन्तुमशक्तश्चै त्प्राचीनयोग्य प्राचीनेषु काश्यपादिषु योग्योऽधिकः प्रा-