पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ पश्चमोऽनुवाकः ] तैत्तिरीयोपनिषद्दीपिका । जानात्युपास्त इत्यर्थः । ब्रह्म देशकालवस्तुपरिच्छेदशल्यं महोव्याहत्यात्मत्वेनोकः । ब्रह्मणि ज्ञाते को लाभ इत्यत आह–सर्वे निखिला अस्मै महो ब्रह्माहमादित्यचन्द्रमा बज्ञानम- जीभूतो महीयान्यङ्गानि भूरायास्तिस्रो व्याहृतय इत्युपासकाय देवास्तदङ्गभूता अग्न्यादयो चागादयश्च विश्व इव राशे प्रधानाय बलिं तदभीष्टरूपरसादिकम् । आवहन्त्यानीय प्रापयन्ति । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छ करानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां शीक्षावल्यां चतुर्थोऽनुवाकः ॥ ४ ॥ अथ पञ्चमोऽनुवाकः ननु महो ब्रह्मात्मा कुत्र कथमुपास्यत उपासनातः केन द्वारेण निर्गच्छति निर्गतो वा केन रूपेण कुत्र स्थित्वा देवदत्तं बलिं गृह्णातीत्याशङ्कय तदेतत्सर्वं दर्शयति–स परोक्षः । यः प्रसिद्धः । एष प्रत्यक्षः । अन्तर्हृदये हृदयस्य पद्माकारस्य मांसखण्डस्या धोमुखस्योर्ध्व- नालस्य पञ्चच्छिद्रस्य कदम्बकुसुमकेसरैरिव सर्वतो नाडीभिः परिवृतस्य मध्य आका- शोऽवकाशः । तस्मिन्नाकाशेऽयं प्रत्यक्षः स्वयंप्रकाशमानो महोव्याहत्यात्मकः । पुरुषः पुरिशयोऽपि । परिपूर्णब्रह्मरूपो मनोमयो मनःप्रधानः । अमृतो मरणशून्यः । हिरण्मयो भास्करः सर्वज्ञ इत्यर्थः । । । कुत्र कथमुपास्य इत्यनयोरुत्तरं जातम् । अथ केन द्वारेण निर्गच्छतीत्यस्योत्तरमाह- अन्तरेण तालुके ताल्लुकयोर्मध्ये । सुखविलस्यान्तर्जिह्वामूलस्योपरि स्थितौ वामदक्षिणभागौ ताल्लुके इत्युच्येते | यः प्रसिद्धो योगशास्त्रे । एष प्रलम्बिकाकरणप्रवीणजिह्वाग्रस्पर्शनप्र- त्यक्षः परमुखे चक्षुष्प्रत्यक्षो वा । स्तन इव वत्सतरीपयोघरी यथा । अबलम्बतेऽवल- म्बनं कुरुते लम्बमानस्तिष्ठतीत्यर्थः । सा तालुकयोरन्तरस्थस्तन मध्यवर्तिनी इन्द्रयोनिरिन्द्र- स्याऽऽनन्दात्मनो योनिरुपलब्धिस्थानम् | कार्य ब्रह्मप्राप्तौ निर्गमनकारणं चेन्द्रयोनिः । यत्र यस्मिन्प्रदेशे । असौ प्रसिद्धः । केशान्तो मूर्धानमारभ्योपरिष्टाद्दशाङ्गुलपरिमितो देशः । केशान्तः—कश्चाश्चेशश्च केशा ब्रह्मविष्णुमहेश्वर रास्तेषामन्तो विनाशकारणमित्यर्थः । केशान्तः 'पौरुषो बोध इत्यर्थः । विवर्तते - बोधरूपा परित्यागेनासत्यस्य नानाकारस्य शरीरत्रयस्य साथिदैवादेस्तदभिमानादेचाऽऽकारेण परिणमते । अथवा केशानां प्रसिद्धानामन्तो न भावो मूलमित्यर्थः । यस्मिन्देशे विशेषेण वर्तते व्यपोह्य भिवा | शीर्षकपाले शीष्णों मूर्तः कपाले शकले । विनिर्गता या नाडीति शेषः । एष स्तन इवावलम्बते तन्मध्यवर्तिनी ( १ ) " यथाऽग्रस्योपरि केशानामभावादग्रभन्तशब्देनोच्यते, तथा मूलादयोऽपि तदभावान्मूलमप्यन्तश- ब्दवाच्यम्”-~-सायनभाष्ये