पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शंकरानन्दकृ [ शीक्षावल्ली इदानीं व्याहृतीनां ज्योतिर्वायुरूपतामाह -भूरिति वा अग्निः । भुव इति वायुः | सुचरित्यादित्यः । मह इति चन्द्रमाः । चन्द्रमसा वाव सर्वाणि ज्योतीष महीयन्ते । अग्निवाय्वादित्यचन्द्रमसः प्रसिद्धाः । एतेभ्यों व्यतिरिक्तानि सर्वाणि ज्योतीष नक्षत्रादीनि । अग्न्यादीनां सर्वशब्दान्तः पातित्वेनैषां देवरूपत्वेन चन्द्रमस उपभोगेन तेन मही- यमानत्वमविरुद्धम् । वायोश्र तेजःसाक्षात्कारणत्वाज्ज्योतिलयसाहित्येन पाठो न विरुद्धः । अन्यत्पर्यायचतुष्टेऽपि पूर्ववव्याख्येम् । इदानीं व्याहृतीनां शब्दप्रपञ्चात्मकत्वमाह - भूरिति वा ऋचः । भुव इति सामानि । सुवरिति यजूषि । मह इति ब्रह्म । ब्रह्मणा वाव सर्वे वेदा महीयन्ते । अर्थातु- सारेण पादवद्धाक्षरा ऋचः । सामानि ऋचः एव गीतिमत्यः । यजूंष्यविवक्षितच्छन्दोरूपाणि गव्यानि । अत्र सानो द्वितीयत्वे यजुषस्तृतीयत्वे च वाचनिकं कारणमास्थेयम् । अथवाऽन्त- रिक्षे गन्धर्वाणां निवासत्वेन गीतिप्राधान्यात्तत्साम्येन सान्नो द्वितीयत्वं यजुःस्थितकर्मसा- ध्यत्वात्स्वर्गस्य तत्कर्मसंबन्धायजुषस्तृतीयत्वं चेति । ब्रह्मोकारो ब्रह्मकोशत्वात्तेनैव सर्व ऋगादयः पूज्यमाना दृष्टाः । शेषं पर्यायचतुष्टयेऽपि पूर्ववव्याख्येयम् । इदानीं व्याहृतीनां क्रियात्मकत्वमाह-भूरिति वै प्राणः । भुव इत्यपानः । सुवं- रिति व्यानः । मह इत्यन्नम् । अन्नेन वाव सर्वे प्राणा महीयन्ते । प्राण उच्छ्वासकर्मा । अपानो निःश्वासकर्मा । व्यानः प्राणापानसंधिस्थो वीर्यवत्कर्महेतुः । अन्नमदनीयम्, अन्नेन प्राणा उक्ताश्चक्षुरादयश्च । शेषं पर्यायचतुष्टयेऽपि पूर्ववव्याख्येयम् । अयं लोक इत्यादिकमुक्तं व्याहति- चतुष्टयपर्यायचतुष्टयेऽपि पाठस्य वैषम्याभावात् । तत्राऽऽद्येन पर्यायेण रूपनामकर्मात्मकं जगत्रेघा कर्मणामविभक्तानामादित्यः कारणमित्युक्तम् । नाम क्रियारहितस्य रूपस्य त्रेधा विभक्तस्य चन्द्रः कारणमिति द्वितीयेनोक्तम् । रूपक्रियारहितस्य नाम्नत्रेधा विभक्तस्य प्रणवः कारणमिति तृतीयेनोक्तम् । रूपनामरहितस्य कर्मणत्रेधा विभक्तस्याचं कारणमिति चतुर्थेनोक्तम् । तेन व्याहृतीनां सर्वात्मकत्वं सिद्धम् । तदिदानीं संक्षेपेणाऽऽह - ताः प्रसिद्धाः । वै स्मयमाणाः । एताः पूर्वोक्ता व्याहृतयः । चतस्त्रो भूर्भुवःसुवर्मह इति चतुःसंख्याकाः । चतुर्धाऽयं लोकोऽग्निर्ऋचः प्राण इति चतु- प्रकारा भूर्व्याहृतिः । अन्तरिक्षं वायुः सामान्यपान इति चतुष्प्रकारा भुवोव्याहृतिः । लोक आदित्यो यजूंषि व्यान इति चतुष्प्रकारा सुवर्व्याहृतिः । आदित्यश्चन्द्रमा ब्रह्मानमिति चतुष्प्रकारा महोन्याहृतिरिति चतसश्चतुष्प्रकाराः । तदेतदाह - चतस्रश्चतस्त्रो भूरायाच तनचतुःसंख्याकाः । पुनरप्ययं लोक इत्यादिनैकैकाऽप्यवान्तर भेदाच्चतुःसंख्याका । व्याहृ- तयो व्याख्याताः । ता एकैकाचतुष्प्रकारा इत्युक्ता भूराया नियतप्रकाराय उपासको वेद जानात्युपासीतेत्यर्थः । स प्रत्येकं नियमेन चातुर्विध्येन चतसृणामात्माङ्गभावेनोपासको वेद