पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शंकरानन्दकृता [ शीक्षावडी - आ मा मां श्रीकामं यन्त्वायन्त्वत्राऽऽगच्छन्तु | ब्रह्मचारिणोऽध्ययनार्थिनो माण- वकाः सर्वाच दिक्ष्ववस्थिताः । स्वाहा व्याख्यातम् | ब्रह्मचारिणामागमने प्रयोजनमाह - यशः । अत्र धर्मशब्देन धर्मी लक्षितो भवति — यशस्वी । जने लेके । असानि भवानि | स्वाहा व्याख्यातम् । अत्रापि प्रयोजनमाह - श्रेयानतिशयेन प्रशस्यः । वस्यसो वसु- मत्तरात्सकाशात् । वस चात्र दैवं मानुषं वित्तम् । असानि भवानि । स्वाहा व्याख्या- तम् । तत्रापि प्रयोजनमाह -तं ब्रह्मणः कोशभूतम् । त्वा त्वामकारम् । भग समग्रधर्मज्ञान- वराग्यैश्वर्ययशः श्रीणां निवासभूत ओंकारो ब्रह्मकोशो भगः, तत्संबोधन हे भग प्रविशानि प्रवेशं करवाणि । स्वाहा व्याख्यातम् । ननु यदि मत्प्रविष्टस्त्वं ताई मत्तो भिन्नः समुद्रं प्रविष्टः समुद्रादिव भिन्नो मत्स्यस्तथा च तद्वदेव भवतो न कोऽपि पुरुषार्थ इत्यत आह-स मया प्रवेष्टव्यो ब्रह्मणः कोशभूतो भवा- नोंकारः | मा मां तादात्म्येन त्वदुपासकम् । भग प्रविश स्वाहा प्रवेशं कुरु । आवयो रनुपचरितं तादात्म्यमस्त्वित्यर्थः । व्याख्यातमन्यत् । 7 ननु - त्वं कर्ता भोक्तेत्यादिसंसारधर्मवान्मयेश्वरेण कथमभिन्नः स्या इत्यत आह -त. स्मिन्मदभिन्न ओंकार ईश्वरे । सहस्रशाखे सहस्रमनन्ताः शब्दार्थात्मनो वृक्षस्य भवतः शब्दार्थविवर्तरूपाः शाखा यस्य स सहस्रशाखस्तस्मिन् | निभग है भग | नेर्मृजिना संब- न्धः । अहं वस्तुतस्त्वदभिन्न इदानीमविद्यापटलपिनद्धाक्ष उपासकः । त्वयि शब्दार्थरहित ओंकारे ब्रह्मणि “ अहं ब्रह्मास्मि " इति बोधेन निमृजे निमार्जिम कर्तृत्वादिकमवियाकृतं न वस्तुत इति ज्ञानेनाऽऽत्मानं परिशोधयामीत्यर्थः । स्वाहा व्याख्यातम् । तथा च ब्रह्मचारिणामागमनं परंपरया मोक्षहेतुरित्युक्त्वेदानीं तदेव दृष्टान्ताभ्यां मन्त्रान्तरेण विशिनधि - यथा येन प्रकारेण । आपो नीरधाराः । प्रवता -उच्चा- देशात्पतन्त्यो निनदेशगामिन्य इत्यर्थः । प्रवतेतितृतीया पक्षे प्रवणवता मार्गेणेति व्याख्येयम् । यन्ति निन्नदेशं गच्छन्ति । अपां सेत्वादिना प्रतिबन्धो दृष्टस्ततो दृष्टान्तान्तरमाह- यथा दृष्टान्ते । मासाः पक्षद्वयात्मकाचैत्रादयः । अर्हर्जरमहानि जरयति स्वकुक्षिनिक्षेपेण यः संवत्सरस्तम् । यन्तीत्यनुवर्तते । एवं दान्तिके मां श्रीकामम् । ब्रह्मचारिणश्छात्राः | धातः - हे धातः सर्वस्त्रष्टृत्वात्प्रणवस्य धातृत्वम् । आयन्त्वागच्छन्तु | सर्वतः सर्वाभ्यो दिग्भ्यः | स्वाहा व्याख्यातम् । नन्विदं सर्वं मत्तादात्म्यार्थ; मम तव च कः संबन्ध इत्यत आह - प्रतिवेशः स्वगृहस- मीपस्थं गृहं प्रतिवेशः । तद्वञ्चैतन्यरूपेण जीवोपाघेरतिसंनिहितत्वात्प्रणवचैतन्यात्मा प्रति- वेशः । असि भवसि । यतस्ततः प्र मा मां त्वदुपासकम, भाहि प्रभाहि - प्रकाशय