पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ तृतीयोऽनुवाकः ] तैत्तिरीयोपनिषदीपिका। । विनाशी देहः । मे ममाधिकारिणः । विचर्षणं विचक्षणं नीरोगमित्यर्थः । भूयादिति पुरुष [ वि ] परिणामेनात्र वक्ष्यमाणे चातुषङ्गः । जिह्वा वागिन्द्रियाघारभूता मे ममाधिकारिणः । • सधुमत्तमा जिह्वाया मधुत्वं प्रियहितसत्यभाषित्वं वेदायतनं तपस्या अस्ति सा मधुमती । अतिशयेन मधुमती मधुमत्तमा । कर्णाभ्यां श्रोत्राभ्याम् | भूरि बढ़ | विध्रुवं व्यशृणवमा- ·त्मसाक्षात्कारार्थं तच्छ्रवणमस्त्वित्यर्थः । - इदानीमोंकारस्यात्यन्तं ब्रह्मसामीप्यमाह - ब्रह्मणः सत्यज्ञानादिलक्षणस्य कोशः खड्ग- •स्येव व्याप्य व्यवस्थित आवरणविशेषः । यथा कोशः खड्गेन संभृतः, एवं ब्रह्मणा संभृतः प्रणवः । अलि भवसि । एवंभूतोऽप्यविद्यादृष्टिभिर्नावगन्तुं शक्यत इत्याह – मेधया ·लौकिकश्श्रुतधारणया बुद्धया । पिहित आटतः । यस्मादेवंगुणकस्ततस्त्वं श्रुतम् “ इदं सर्व यदयमात्मा ” “ अहं ब्रह्मास्मि " इत्यादिश्रवणपथमागतम् । मे ममाधिकारिणः । गोपाय रक्षां कुरु । आत्मसाक्षात्कारफलावसानं कुर्वित्यर्थः । मेधाविषयेऽर्थान्नुसंधानपुरःसरं मन्त्रजपमुक्त्वा मेधावतोऽपि बहिर्मुखस्य निःश्रीकस्य न प्रत्यक्प्रवणता । ततः श्रीकामस्य श्रीकरान्मन्त्रान्प्रणव प्रतिपादकान्सहोमलिङ्गानाह-आ- • वहन्ती समन्तात्प्रापयन्ती | वितन्वाना विविधं विस्तारयन्ती । कुर्वाणा कुर्वती । चीर- · मनेककालम् । अचीरमितिपदच्छेदे क्षिप्रमिति व्याख्येयम् । आत्मनः स्वस्याः श्रियोऽवस्था- ·नमिति शेषः । वासा सि वस्त्राणि । ममास्यार्थिनः । गावश्च प्रसिद्धाः । चकारोऽवादी- • नामनुकानां समुच्चयार्थः । अन्नपाने च–अद्यत इत्यन्नं पीयत इति पानमन्त्रं च पार्न चानपाने । चकार उक्तवासोगवान्त्र पानसमुच्चयार्थः । सर्वदाऽचारभ्याऽऽत्मसाक्षात्कारम् । आत्मनश्चिरं कुर्वाणा वासआदिकं सर्वदा वहन्ती वितन्वाना च मम गृहेऽवस्थानं करोत्विति शेषं पूरयित्वा व्याख्येयम् । 'नन्वहं मेधाया दाता, कथं श्रियो दातेत्यत आह -तत इति । यतो मेधाया दाता तस्मात् | अयं भावः -- श्रीः प्राकृतैरपि राजादिभिर्दातुं शक्या, मेधा तु भवन्तमन्तरेण ब्रह्मणः कोशं न केनचिदातुं शक्या । ततोऽतिदुर्लभस्य मेधादेर्दातुर्ब्रह्मणः कोशस्योंकारस्य किया श्रीदाना- र्थमुव्यमः मे मम श्रीकामस्य | श्रियं मद्गृहे यामात्मनश्चिरमवस्थानं कुर्वाणामन्नपानवा- दीन्प्रापयन्तीं तामेव विस्तारयन्तीमावह प्रापय | लोमशामजादिलोमभिलोंमवतीं चेतन- मण्डलबहुलामित्यर्थः । पशुभिर्गवाचादिभिः सह समम | स्वाहा मदीया वाक्स्वशब्द- वाच्यां श्रियमावहेति यामाह तां स्वाहैव स्वाहा । स्वाहेतिदर्शनाद्धीमार्थताऽस्य मन्त्रस्य वक्ष्य- माणानां चावगम्यते । होमद्रव्याणि च स्वस्वगृह्येष्वव गन्तव्यानि । मन्त्रेण स्वस्थानि [ ? ] क्षीराज्यबिल्वादीनि वा । प्रणवात्मा च देवताऽग्न्यादिकं तु यथायोगमवगन्तव्यम् ।