पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शंकरानन्दकृता [ शीक्षावडी कारः स वाय्वात्मक इति ध्यायेत् । एवमुत्तरेष्वप्युपास्यावयवेषु चतुर्षु योज्यम् । इतिः समा- प्त्यर्थः प्रकृतोपनिषदः । प्रकृतामुपनिषदमाह — अधिलोकं व्याख्यातम् । अथ चतुष्टयमपि स्वापेक्षया पूर्वोपासनानन्तर्यमा । अनिभौमः | आदित्य चन्द्र- ( त्यः सूर्यः?) मण्डलम् । आपो नीराणि विद्युत एव वैद्युतोऽचिरप्रभवः । आचार्यो गुरुः । अन्ते- वासी शिष्यः । विद्याऽऽचार्येणोच्यमाना। प्रवचनं गुरुशिष्ययोः प्रकर्षेणोच्चारणं विद्यायाः । माता जननी । पिता जनकः । प्रजा पुत्रादिः । प्रजननमुत्पत्तिः प्रजायाः । अधरा हनु- रघरोष्ठमारभ्य चिबुकफलकाकान्ता | उत्तरा हनुरुत्तरोष्ठमारभ्याऽऽनासामूलम् । वाग्वणों- चारणशक्तं ताल्वादिस्थमिन्द्रियम् । जिह्वा प्रसिद्धा । अन्यत्पर्यायचतुष्टयेऽप्यन्त्यं पदं मुक्त्वा समानपाठं पूर्ववद्व्याख्येयम् । इतिर्मंहासंहिता परिसमाप्त्यर्थः । इमा अघिलोकाया महासंहिता व्याख्याताः । इदानीं पञ्चानामपि फलमाह – योऽधिकारी | एवं पूर्वोत्तररूपेणैता अधिलोकाया महासंहिता व्याख्याता विविधमासमन्ताव्यक्तं कथिता वेद जानात्युपासीतेत्यर्थः । संघीयते संबध्यते । प्रजया पुत्रादिलक्षणया । पशुभिर्गवादिभिः । ब्रह्मवर्चसेन ब्राह्मण- जात्युचितेन तेजसा । अन्नाद्येन – अन्नं च तदायं चान्नायं, तेन व्रीहियवादिनेत्यर्थः । सुव- र्गेण स्वर्गेण लोकेन कर्मफलेन । प्रजादिभिः संपन्नो भवतीत्यर्थः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरी- योपनिषद्दीपिकायां शीक्षावल्ल्यां द्वितीयोऽनुवाकः ॥ २ ॥ अथ तृतीयोऽनुवाकः अथ यः कश्चन दुर्मेधा नासौ मे धोत्पादनमन्तरेण ब्रह्म बोद्धुं शक्त इति मेधाकामस्य मेधाकरा- अपमन्त्रानाह–यः प्रसिद्ध ओंकारश्छन्दसां गायत्र्यादिच्छन्दस्त्रिनामृगादिभेदानामृषभः श्रेष्ठः । विश्वरूपः सर्वरूपः पर्णेत्रिव शङ्कुः सर्वस्मिञ्जगति व्यवस्थित इत्यर्थः । छन्दोभ्य उक्तेभ्य ऋगादिभ्यः | अधि - अधिकः सर्वव्यापकत्वात् । अमृता- त्स्वयंप्रकाशमानादात्मनः । संबभूवोत्पत्तिकमकरोत् । छन्दोभ्योऽमृतादिभिः सामाना- धिकरण्याङ्गीकारेणाधिकः सम्यग्वर्तत इति व्याख्येयम् । सोऽमृतजश्छन्दः सारभूतः । मा माम् । इन्द्र इन्द्रस्य परमात्मनो वाचकत्वादिन्द्रः । मेधया क्या | स्पृणोतु. प्रीणयतु मेधासंपन्नं करोत्वित्यर्थः । मेवासंपत्तेः फलभूतामाशिषमाह - अमृतस्य तज्जनकस्य ब्रह्मणोऽहं तदस्मीति तादा- त्म्येन | देव हे देव । स्वयंप्रकाशस्याऽऽत्मनः प्रकाशकत्वेन धारणो धारयिता भूयासं • भवानि । मेधाप्राप्तेरपि शरीरारोग्यादिकमन्तरेणाभावादतस्तदपि प्रार्थयते - शरीरं स्थूलो -