पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ द्वितीयोऽनुवाक: ] तैत्तिरियोपनिषद्दीपिका ३ संतानः संततिः संहिताया नियतक्रमं पदं वाक्यं चेत्यर्थः । इतिः समाप्तौ शिक्षायाः । उक्तः कथितः शीक्षाध्यायः शिक्षाऽधीयतेऽवगम्यतेऽनेनेति श्रीक्षाध्यायः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तोत्तरर्रायोपनि- षद्दीपिकायां शीक्षावल्यां प्रथमोऽनुवाकः ॥ १ ॥ अथ द्वितीयोऽनुवाकः - इदानीं देहलीप्रदीपैन्यायेनोकवक्ष्यमाणयोः साधारणं मङ्गलाचरणं करोति शिष्यरूपो वेदः शिष्यशिक्षार्थम् । सह समं नावावयोर्गुरुशिष्ययोः | यशः – अस्यायं शिष्योऽस्यायं गुरुरित्यध्यापनाध्ययनजन्या कीर्तिरस्त्विति शेषो वक्ष्यमाणे च | सह नौ व्याख्यातम् । ब्रह्मवर्चसं ब्रह्म ब्राह्मणत्वजातिः, तदीयं तेजो ब्रह्मवर्चसं स्वाश्रमानुष्ठानपरौ दीर्घायुष्मन्ता- वावां भूयास्वेत्यर्थः । अथ शीक्षाध्यायकथनानन्तरम् । अतः कृतमङ्गलानामपि नान्तर्मुख- त्वमन्तरेण ब्रह्मज्ञानोत्पत्तिरस्मात्कारणात् । संहिताया नियतक्रमपदवाक्यरूपायाः । उप- निषद् सामीप्येन नितरामिष्टार्थगमकत्वादनिष्टस्य शिथिलीकृत्य विनाशकारित्वाच तद्वि- षया बुद्धिरुपनिषत्ताम् । व्याख्यास्यामो व्याख्यातम् । पञ्चसु पञ्चसंख्याकान्तेषु । अधिकरणेष्वाधारेषु । अधिकरणान्याह–अधिलोकं लोकमधिकृत्य | अधिज्यौतिष ज्योतिरधिकृत्याधिज्योतिरधिज्योतिरेवाधिज्यौतिषम् | अधिविद्यं विद्यामधिकृत्य | अधि प्रजं प्रजां पुत्रादिसंततिमधिकृत्य | अध्यात्ममात्मानं शरीरमधिकृत्य । ता अघिलोकायाः । महासंहिताः पदवाक्यसंहितासु चिन्त्यमाना महत्यः संहिता महासंहिताः । इति — अनेन प्रकारेण । आचक्षत आ समन्ताद्व्यक्तं कथयन्ति संहिताविदः । अथ तासां महासंहितात्वकथनानन्तरम् । अधिलोकं व्याख्यातम् । संहिताया उपनि- षदं व्याख्यास्याम इतीदमत्र वक्ष्यमाणेष्वपि चतुर्षु पर्यायेष्वनुवर्तते । पृथिवी प्रसिद्धा भूः । पूर्वरूपं पूर्वस्य पूर्ववर्णस्य रूपं स्वरूपं पूर्ववर्णे पृथिवीदृष्टिः करप्पीयेत्यर्थः। द्यौः स्वर्गलोक उत्तररूपमुत्तरवर्णस्य स्वरूपमुत्तरवर्णे स्वर्गलोकदृष्टिः करणीयेत्यर्थः । आकाशोऽन्तरि- क्षलोकः संधिर्भूस्वर्गलोकौ संघीयेते अस्मिन्निति संधिर्मंध्यं पूर्वोत्तरवर्णयोन्तरालेऽन्तरिक्षदृ- ष्टिः करणीयेत्यर्थः। वायुर्जगत्प्राणत्रिलोक्युदरवर्ती संधानं संयेते पूर्वोत्तरे रूपे अनेनेति संघानं संवन्ध इत्यर्थः । पूर्वोत्तरवर्णयोः संबन्धं वायुदृष्टिः करणीयेत्यर्थः । यथा- "इषे त्वां” इत्यत्र षकारस्योपरि योऽयमेकारः सोऽयं पृथिवीरूपो यचोपरितनस्तकारोऽसौ युलोकात्मक- स्तयोर्वर्णयोर्मध्यदेश आकाशात्मकस्तस्मिन्देशे संहितानिमित्तो विर्भावेनाऽऽपादितो योऽन्यस्त- " (१) देहली गृहद्वारासन्नप्रदेशः । तत्र निहिते। दीपो द्वारान्तःप्रदेशं तद्वहिर्भूतं चत्वरं च प्रकाशयति, तथेदं मङ्गलमुक्तवक्ष्यमाणयोः साधारणं ज्ञेयमिति तात्पर्यम् । ( २ ) तै. सं. १. १. १. १.