पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शंकरानन्दकृता [ शीक्षावडी नुभवताऽनुपचारितेऽप्युच्यमाने नैतादृशं वस्तुटत्तमित्यत आह - सत्यम् । “ इदं सर्व यदयमात्मा " "एकमेवाद्वितम् " " नेह नानाऽस्ति किंचन " " तत्त्वमसि "" अहं ब्रह्मास्मिं ” इत्यादिशास्त्रेभ्य ऐक्यम (क्येना ) वगम्यमानमचाषितं वस्तुस्वरूपमुलुकनि- शावन्न ममैवेदमृतं किंतु सर्वप्रमाणसिद्धमबाधितस्वरूपमित्यर्थः । वदिष्यामि कथयिष्यामि यस्मात्तत्तस्मान्मां भवन्तं ब्रह्मरूपेण प्रतिपादयन्तमवतु कार्यकारणोपाधिर्भवान्पालयतु । ननु भवतः शिष्यस्य वाक्कायमनसां प्रसन्नानामध्यात्मादिदुःखैरनुपघातोऽस्तु, गुरोच विप- र्ययो मङ्गलाचरणे तात्पर्यहीनत्वादित्याशङ्कय गुरुविषयेऽपि स्वयं प्रार्थयते । यस्माद्गुरुमन्त- रेण न विद्या लभ्या शिष्येण तत्तस्माद्वकारं विद्यायाः कथयितारं गुरुमित्यर्थः । अवतु पालयतु । यस्मादनन्तरं तस्मादिति पठित्वा श्रौतं तच्छन्दवयमपि ब्रह्मपरं वा व्याख्येयम् । तच्छन्दरहितं वाक्यद्वयं गुर्वात्मनो रक्षायामादरार्थमुपक्रमविपर्ययेणाध्येति-अवतु मामवतु वक्तारं व्याख्यातम् । यद्यपि गुरुर्ब्रह्मावबोधेन ब्रह्मैव शिष्यश्च साधनचतुष्टयसंपन्नः स्वयमप्रम- तस्तथाऽपि दैवकृतानामतिसूक्ष्माणामपराधानां भूयसां सत्त्वेनाऽऽध्यात्मिकाधिभौतिकाधिदै- विकदुःखागमनाद्ब्रह्मविद्योत्पादस्य विधातः स्याच्छिष्यस्य । ततो दुःखत्रयविघातार्थं त्रिः शा- न्तिपदं पठति - ॐ शान्तिः शान्तिः शान्तिः । वाक्कायमनसामन्येन्द्रियाणां त्रिविधमपि दुःखसुपरतिं गच्छतु ब्रह्मविद्याधिकारिणो ममेत्यर्थः । यद्यपतिः परम् ब्रह्मविदामोति परम्" इत्येवोपक्रमणीयं, तथाऽप्यत्यन्तबहिर्मुखस्य नाऽऽत्मावगतिरित्यन्तर्मुखत्वं संपादयितुं फलेन प्रलोभ्य कानिचिदुपासनानि प्रथमत उच्य न्ते । नन्वेवं चेदशातः संहिताया इत्यायारम्भणीयं न पुनः शीक्षामित्यादिकम् । सत्यम् । तथाऽप्युपनिषदामर्थज्ञानप्राधान्याद्यथाकथंचित्पाठेनार्थज्ञानं करणीयमितिशङ्कानिवारणार्थं शीक्षामित्यादिकं प्रथमं पठ्यते । न पुनरन्यः कश्चनोपयोगः । शीक्षां यथाऽस्मिन्नेव पदे शि.. क्षामित्येवं शिकार एकमात्रसु (त्र उ) च्चार्यमाणेऽर्थाधिगतिर्न पुनवैदिकी पाठशुद्धिः । न च वेदे तत्तद्वर्णस्वरादिहीनस्य पदस्य वाक्यस्य वोपादेयार्थी भवति, प्रत्युत दृष्टार्थविनाशस्तत्तदुपनि पदामपि वेदत्वात्तत्तच्छाखापाठकप्रसिद्धवर्णस्वरादियुक्तपदायुच्चारणेनार्थज्ञानं करणीयमित्येत- दर्थं छान्दस्या प्रक्रियया शीक्षामिति पाठः । शिक्ष्यन्तेऽनया वर्णादयः, शिक्ष्यन्ते इति वर्णादय एव वा शिक्षा | तां शिक्षां व्याख्यास्यामो विविधमासमन्ताद्व्यक्तं कथयिष्यामः । वर्णोऽका- रादिः । स्वर उदात्तादिः । मात्रा ह्रस्वादिः । बलं प्राणस्थानप्रयत्नैः । साम समता द्रुत- विलम्बितात्यधिकातिनादिवर्जनेनैकरूपतयोचारणं व्याघ्री ॐायधनीडनमित्यर्थः । ( १ ) बृ. उ. २. ४. ५.; ४. ५. ७. (२) छां. उ. ६.२.१. ( ३ ) बृ. उ. ४.४.१९. (४) छां. उ. ६॰ ८. ७. (५) बृ. उ. १.४.१०. ( ६ ) वर्णानामिति शेषः । यथा व्याघ्री स्वापत्यानि मुखे धृत्वा दशनाभिघातत्रणाद्यकृत्वैव स्थलात्स्थलान्तरं नयति, तथा स्थानादिषु पीडनमकृत्वैव वर्णोच्चारणं सामश- ब्देन गृह्यत इति भावः ।