पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ शंकरा. ॐ तत्सद्ब्रह्मणे नमः । तैत्तिरीयोपनि छीपिका । वक्ष्येऽधुना शंकरविश्वरूपवाचा विनिर्णीत समस्तवाक्यम् । कृष्णं यजुस्तित्तिरिनामचिह्नं पदार्थशुद्धयर्थमतीव सार्थम् ॥ १॥ कर्माणि विचित्राणि नित्यादिलक्षणानि पूर्वमुक्तानि, तैर्निःश्रेयसमपश्यन्त्रह्मज्ञानायोप- निषदमारभमाणो वेदो ब्रह्मज्ञाने च महतामपि देवैः क्रियमाणान्विघ्नानवलोक्य तत्प्रशान्तये ब्रह्मविद्यार्थिनेदं पठनीयमित्यभिप्रायेण प्रथमं पठति — शं मुखं नोऽस्मभ्यं मित्रः प्राण- वृत्तेरह्नचाभिमानिनी देवता, शं सुखं, वरुणोऽपानवृत्ते रात्रे वाभिमानिनी देवता न इत्यनु- षङ्गः । शं नो व्याख्यातम् । भवतु भूयात् । इदं पदं शंपदेन सर्वत्र संबध्यते । अर्यमा चक्षुष आदित्यमण्डलस्य चाभिमानिनी देवता । शं नो व्याख्यातम् । इन्द्रो बाह्वोर्बलस्य चाभिमानिनी देवता । बृहस्पतिर्वाचि बुद्धौ चाभिमानिनी देवता शं न इत्यनुषङ्गः । शं नो व्याख्यातम् । विष्णुः पादाभिमानिनी देवता तद्विशेषणमुरुक्रमः । उरु प्रचुरं क्रमणं यस्य स उरुक्रमः सर्वव्यापीत्यर्थः । अथवा स्वतन्त्रमिदं पदम् । उरुक्रमो विराट् सर्वान्नाभिमानिनी देवता । शं न इत्यनुषङ्गः । एवं स्थूलसक्ष्माभिमानिनीर्देवताः प्राध्यैदानीमव्याकृतज्ञान क्रियाशक्त्यभिमानिनीं देवतां नमस्करोति – नमो नमस्कारः। ब्रह्मणेऽव्याकृताभिमानिने । तस्यानुत्पादिता कार्यस्याकिंचि- त्करत्वात्कार्याभिमानिनं तदभिन्नं पुननमस्करोति - नमो नमस्कारः । ते तुभ्यं वायो हे क्रियाशक्तिप्रधानज्ञानक्रियाशक्ते । ननु प्रतिपाद्यस्यैव नमस्कारः करणीयो न चाहं प्रतिपाय इत्यत आह - त्वमेव ज्ञानक्रियाशक्त्यभिमान्येव न त्वन्यत् । प्रत्यक्षं शास्त्रस्य प्रत्यक्षं स्वयंप्रकाशमानत्वेन बुद्धयादेः साक्षित्वेन वा ब्रह्माव्याकृताभिमानिदेशकालवस्त परिच्छेदशन्यस्वरूपम् । असि भवसि । ननु ययहं ब्रह्म किं तवेत्यत आह - त्वामेव प्रत्यक्षं ब्रह्म कार्याभिमानिनमेव भवन्तं स्वयंप्रकाशं कारणाभिमानिस्वरूपं वदिष्यामि त्वं ब्रह्मासीति गुरुणोक्ते कार्यकरणाभिमानि चैतन्ययोरैक्यमवगत्याहं ब्रह्मास्मीति वदिष्यामि कथयिष्यामि । नन्विदमुपचरितं मां प्रति भवतोच्यत इत्यत आह - ॠतमाम कथयिष्यामि ।