पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तैत्तिरीयोपनिषत् जीवन्मुक्तस्य सय एवंवित् । अत्मालोकात्मेत्य | एतमन्नमय- सर्वात्मैक्यम् मात्मानमुप॑संक्र॒स्य | एतं प्राणमयमात्मानमुप॑- संक्रम्य । एतं मनोमयमात्मानमुप॑संक्र॒म्य । एतं विज्ञानमयमात्मानमुप॑संक्रम्य । एतमान- न्दमयमात्मानमुप॑संक्र॒म्य । इमाँल्लोकान्कामा भी कामरूप्येनुसंचरन् । एतत्साम गयन्नास्ते । अन्नमयादिक्रमेणाऽऽनन्दमयमात्मानमुपसंक्रम्यैतत्साम गायन्नास्ते । 'सत्यं ज्ञानम् ' इत्यस्या ऋचोऽर्थो व्याख्यातो विस्तरेण तद्विवरणभूतयाऽऽनन्दव- छया । 'सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता' इति तस्य फलवचन- स्यार्थविस्तारो नोक्तः । के ते ? किंविषया वा सर्वे कामा: ? कथं वा ब्रह्मणा सह समश्नुते ? इत्येतद्वक्तव्यमितीदमिदानीमारभ्यते । तत्र पितापुत्राख्यायि- काय विद्याशेषभूतायां ' तपः' ब्रह्मविद्यासाधनमुक्तम्, प्राणादेराकाशा- न्तस्य च कार्यस्यान्नान्नादत्वेन विनियोगश्चोक्तः, ब्रह्मविषयोपासनानि च; ये च सर्वे कामाः प्रतिनियतानेकसाधनसाध्या आकाशादिकार्यभेदविषयाः, एते दर्शिताः । एकत्वे पुनः कामकामित्वानुपपत्तिः - भेदजातस्य सर्वस्याऽऽत्मभू- तत्वात् । तत्र कथं युगपद्ब्रह्मस्वरूपेण सर्वान्कामानेवंवित्समश्नुत इत्युच्यते ? सर्वात्मत्वोपपत्तेः । कथं सर्वात्मत्वोपपत्तेः ? इत्याह । पुरुषादित्यस्थात्मैकत्व- विज्ञानेनापोह्योत्कर्षापकर्षो, अन्नमयादीनात्मनोऽविद्याकल्पितान्क्रमेण संक्रम्या- ऽऽनन्दमयान्तान् ' सत्यं ज्ञानमनन्तं ब्रह्म' अदृश्यादिधर्मकं स्वाभाविकमानन्द- मजममृतमभयमद्वैतं फलभूतमापन्नः इमाँल्लोकान्भूरादीननुसंचरन्निति व्यव- हितेन संबन्धः । कथमनुसंचरन् ? कामान्नी कामतोऽन्नमस्येति कामान्नी; तथा कामतो रूपाण्यस्येति कामरूपी । अनुसंचरन्सर्वात्मनेमाँल्लोकानात्मत्वेनानुभवन् । किम् ? एतत्साम् गायन्नास्ते | समत्वाद् ब्रह्मैव 'साम' - सर्वानन्यरूपं गाय- [शब्दयन्–नात्मैकत्वं प्रख्यापयँल्लोकानुग्रहार्थ, तद्विज्ञानफलं चातीवकृतार्थत्वं गायन्नास्ते तिष्ठति । १३४ [ भृगु-वल्ली " स यः ’ इत्यादिपदव्याख्यानमुपेक्ष्य, उपसंक्रमणसामगानयोरेककर्तृकत्वमन्वय प्रदर्शनेन दर्शितम् । इदानीं वल्लीसमाप्तिपर्यन्तस्य ग्रन्थस्य तात्पर्य वृत्तकीर्तनेनाऽऽह-सत्यं ज्ञानमि-. ( १ ) ●मत्वाप ० इति पाठ: । (२) ९मलाप ० इति पाठः ।