पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० दशमोऽनुवाक: ] ब्रह्मानन्द्रैक्यम् ब्रह्मात्मैक्यम् स यश्वा॑यं पुरुषे । यश्वासा॑वादि॒त्ये । स एक॑ः । (४) कथमेकत्वमिति ? उच्यते- -2 “स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः । ” इत्येवमादि पूर्ववेत्सर्वम् । संसारित्वापोहार्था— मातृबुद्धिरिव परयोषिति रागापोहार्था । अतः ' तत्त्वमसि ' इत्युपदेश- स्यान्यार्थत्वात्, न जीवस्य पारमार्थिकमसंसारिब्रह्मात्मत्वमित्याशङ्कय तद्दूषयति - भावा- न्तरापन्नस्येत्यादिना । अबाधिततत्पदमुख्यसामानाधिकरण्याविरोधात् ब्रह्मणि जीवे ब्रह्मत्वसंपादनार्थत्वं कल्पयितुं न शक्यत इत्यर्थः । संसारित्वग्राहकप्रत्यक्षविरोधादबाघितत्व- मसिद्धमित्याह – दृष्टमिति । सर्वप्रमाणानामनुग्राहकस्तर्क इष्यते, आत्मनश्च संसारधर्मव- च्वस्य —तर्कापरिशुद्धत्वा तत्प्रत्यक्षस्य भ्रान्तत्वात् —–—न शास्त्रज्ञानबाधकत्वं संभवती- त्याह—नेति । सुखादेरुपलभ्यत्वान्नोपलब्धधर्मत्वं संभवति, रूपादिवदित्यर्थः । संसारित्व- ग्राहकं यद्यपि प्रत्यक्षप्रमाणं न भवति, तथाऽपि संसारधर्मविशिष्ट आत्मा स्वचैतन्येनोपल- भ्यते इति स्वानुभवविरोधात्-न शाब्दमसंसारित्वज्ञानं प्रमाणमिति चेत् - तदपि युक्तं कर्मत्वकर्तृत्वविरोधादित्यर्थः । प्रत्यक्षविरोधाभावेऽप्यनुमानविरोधो भविष्यतीत्याह-त्रासा- दीति । त्रासादि साश्रयं, कार्यत्वात् – घटवत्; अन्यस्याऽऽश्रयस्यासंभवात्, आत्मैव तदा- श्रयोऽनुमीयत इति न वाच्यम् – उपलभ्यं नोपलब्धुर्धर्मः, रूपादिवत्, इति व्याप्त्यन्तरवि- रोधात्, अध्यासादपि कार्यदर्शनसंभवादित्यर्थः । जीवस्य ब्रह्मात्मत्वं प्रतिपादयतः शात्रस्य तर्कशास्त्रविरोधादप्रामाण्यमाशङ्कथ दूषयति -- कापिलेत्यादिना । तर्कशास्त्रस्य श्रुतेश्च विरुं- द्धाव्यभिचारित्वेन प्रामाण्यसंशयोऽपि नाऽऽशङ्कनीय इत्याह – श्रुत्युपपत्तिभ्यां चेति । किंच तार्किकेणापीश्वराधीनं जीवस्य सुखित्वं दुःखित्वं च निरूपणीयं, न तन्निरूपयितुं शक्यते, स्वात्मनीश्वरस्य सुखदुःखहेतुत्वासंभवादित्यभिप्रेत्याऽऽह – एकत्वाच्चेति । , १३३ 66 (१) पृ. १०५. (२) ० लभ्यो नो० इति पाठः । ( ३ ) एकत्र तुल्यलक्षणविरुद्धहेतुद्वयो- पनिपातो विरुद्धाव्यभिचारी । यथा - नित्यमाकाशं, अमूर्तद्रव्यत्वात्, आत्मवदिति — एवमनित्यमाकाशम्, अस्मदादिब।ह्येन्द्रियग्राह्यविशेषगुणाधारत्वात्, घटवत् ” । न्यायसारेऽनुमानपरिच्छेदे । “ यत्रैकस्मिन्नेव धर्मिणि त्रैरूप्यादिना समलक्षणं मिथोविरुद्धं च हेतुद्वयमुपनिपतति, स विरुद्धाव्यभिचारी । अत्र द्वयो- रपि हेत्वोयो॑म्नि प्रयुक्तत्वेनैकाधारत्वम् । त्रैरूप्येण तौल्यलक्षण्यं, नित्येतरत्वसाधकत्वेन विरुद्धत्वम् । नह्यत्रो भयोरपि साधकत्वं, वस्तुनो द्वयात्मकत्वासंभवात् । नापि परस्परविरोधादुभयोरप्यसाधकत्वं, नित्यत्वानि - त्यत्वव्यतिरेकेण प्रकारान्तरासंभवात् । न चान्यतरस्य हेतोर्विशेषोऽवगम्यते, येनैकपक्षावधारणं स्यात्; ततोऽयं तुल्यलक्षणविरुद्धहेतुद्वयोपनिपातो विरुद्धाव्यभिचारी भवति । ” – इति तट्टीकायाम् । विरुद्धाव्यभिचारित्वं समानबलयोर्यतः । दृष्टं सर्वत्र लोकेऽस्मिन्न तु सिंहगालयोः ॥ बृ. उ. वार्तिके - १. २. ६०.