पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ भृगु वहीं १३२ ‘ प्राणो वा अन्नं शरीरमन्नादम्' इत्यारभ्याऽऽकाशान्तस्य कार्यस्यैवान्ना • आत्मनोऽसंसारित्वम् नादत्वमुक्तम् । उक्तं नाम, किं तेन ? तेनैतत्सिद्धं भवति - गार्यविषय एव भोज्यभोक्तृत्वकृतः संसारः, न त्वात्मनीति; आत्मान तु भ्रान्त्योपचर्यते । तैत्तिरीयोपनिषत् नन्वात्माऽपि स्मात्मनः कार्य, ततो युक्तस्तस्य संसार इति । न, असंसा- रिण एव प्रवेशश्रुतेः- “तत्सृष्ट्वा तदेवानुप्राविशत्" इत्याकाशादिकारणस्य ह्यसंसारिण एव परमात्मनः कार्येऽनुप्रवेशः श्रूयते, तस्मात्कार्यानुप्रविष्टो जीव आत्मा पर एवासंसारी; 'सृष्टाऽनुप्राविशत्' इति समानकर्तृत्वोपपत्तेश्च- सर्गप्रवेशक्रिययोश्चैकश्चेत्कर्ता, ततः क्त्वाप्रत्ययो युक्तः । प्रविष्टस्य तु भावा- न्तरापत्तिरिति चेत् – न, प्रवेशस्यान्यार्थत्वेन प्रत्याख्यातत्वार । अनेन जीवे- नं' इति विशेषश्रुतेर्धर्मान्तरेणानुप्रवेश इति चेत्-नं, 'तत्त्वमसि' इति पुन - स्तद्भावाक्तेः । भावान्तरापन्नस्यैव तद्पोहार्था संपदिति चेत् - न, 'तत्सत्यं स आत्मा तत्त्वमसि' इति सामानाधिकरण्यात् । दृष्टं जीवस्य संसारित्व- मिति चेत् —न, उपलब्धुरनुपलभ्यत्वात् । संसारधर्मविशिष्ट आत्मोपलभ्यत इति चेत् —–न, धर्माणां धर्मिणोऽव्यतिरेकात्कर्मत्वानुपपत्तेः, उष्णप्रकाशयो- ह्यप्रकाश्यत्वानुपपत्तिवत् । त्रासादिदर्शनाददुःखित्वाद्यनुमीयत इति चेत् - न, त्रासादेर्दुःखस्य चोपलभ्यमानत्वान्नोपलब्धू धर्मत्वम् । कापिलकाणादादि- तर्कशास्त्रविरोध इति चेत् –न, तेषां मूलाभावे, वेदविरोधे च भ्रान्तत्वोपपत्तेः । श्रुत्युपपत्तिभ्यां च सिद्धमात्मनोऽसंसारित्वम्, एकत्वाच्च । झणः संदर्तृत्वं वायुद्वारकमिति वायुः 'ब्रह्मणः परिमर: ' संहारसाधनमित्यर्थः । तत्कथं परिमरगुणवत्तयाऽऽकाशोपासनं सिध्यति ? इत्यत आइस एष इति । एवं मन्दाधिकारिगोचरमुपासनजातमध्यारोपावस्थायामुद्दिश्य, अपवाददृष्टिमभिप्रेत्या- ऽऽ६ - प्राणो वा अन्नमित्यादिना | - भोक्तृत्वादिलक्षणः संसारः कार्यगोचर इति वदतैव जीवस्यानोपाधिकं संसारित्वमिष्टं - तस्यापि कार्यत्वात् — इति भागवतानां मतमुद्भाव्य दूषयति – नन्वात्माऽपीत्यादिना | छान्दोग्यश्रुत्यनुसारेण विकारात्मना प्रवेशमाशङ्कय, वाक्यशेषविरोधमाह–अनेन जीवेने- त्यादिना । भ्रान्त्या देहादिभावमापत्रस्य जीवस्य ब्रह्मव्यतिरिक्तस्यैव ब्रह्मदृष्टिरुपदिश्यते ( १ ) पृ. ७५, ( २ ) छां. उ. ६. ३. २. (३) न, ' तत्सत्यं ' इति पाठः । (४) °दतस्तब- इति पाठः ।