पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० दशमोऽनुवाकः ] उपासनानि तत्प्रति॑ष्ठ॒त्यु॑पास॒त । प्रतिष्ठवान्य॒वति । तन्मह इत्युपासीत । म॑हान्भवति । तन्मन इत्यु॑पासी॒ीत । मान॑वान्भवति ( ३ ) । तन्नम इत्युपासीत | नम्यन्ते॑ऽस्मै कामाः । तद्ब्रह्मे- त्यु॑पासीत । ब्रह्म॑वान्भवति । तद्ब्रह्मणः परि मर इत्युपासीत । पर्येणं त्रियन्ते द्विषन्तः सप॒त्नाः । परि ये॑ऽप्रिया॑ भ्रातृव्याः । तच्चाऽऽकाशं ब्रह्मैव । तस्मात्तत्सर्वस्य प्रतिष्ठेत्युपासीत । प्रतिष्ठागुणापास- नात्प्रतिष्ठावान्भवति । एवं सर्वेष्वपि । यद्यत्राधिगतं फलं, तद्ब्रह्मैव; तदुपासना- ¨तद्वान्भवतीति द्रष्टव्यम् । श्रुत्यन्तराञ्च – “ तं यथा यथोपासते तदेव भवति ” इति । तन्मह इत्युपासीत — 'महः' महत्त्वगुणवत्तदुपासीत । महान्भवति । तन्मन इत्युपासीत । मननं ' मनः । मानवान्भवति मननसमर्थो भवति । तन्नम इत्युपासीत | नमनं ' नमः' नमनगुणवत्तदुपासीत | नम्यन्ते प्रह्वी- भवन्त्यस्मा उपासित्रे कामाः काम्यन्त इति भोग्या विषया इत्यर्थः । तद्ब्रह्मे- त्युपासीत । 'ब्रह्म ' परिवृढतममित्युपासीत । ब्रह्मवांस्तद्गुणो भवति । तद्भ- • ह्मणः परिमर इत्युपासीत । ब्रह्मणः 'परिमरः ' परिम्रियन्तेऽस्मिन् पञ्चदेवता विद्युष्टिश्चन्द्रमा आदित्योऽग्निरित्येताः । अतो वायुः परिमरः श्रुत्यन्तरम- सिद्धेः । स एवायं वायुराकाशेनानन्य इत्याकाशो ब्रह्मणः परिमर तेमाकाशं वाय्वात्मानं 'ब्रह्मणः परिमरः' इत्युपासीत । पर्येनमेवंविदं प्रतिस्पर्धिनो द्विषन्तः अद्विषन्तोऽपि सपत्नाः ' यतो भवन्ति, अतो विशेष्यन्ते द्विषन्तः सपत्ना इति - य एतं द्विषन्तः सपत्नास्ते परिम्रियन्ते प्राणाञ्जहति; किंच, ये चाप्रिया अस्य भ्रातृव्या अद्विषन्तोऽपि ते च परिम्रियन्ते । , १३१ यत्र वागादौ यत्फलं कार्यं क्षेमादीत्यर्थः । महानिति । प्रजादिभिः । ब्रह्मवानिति | स्थूलभोगसाधनवान् विराडिवेत्यर्थः । श्रुत्य- न्तरप्रसिद्धेरिति । ' य ऎऐवमेताः पञ्च देवता', 'वायुर्वाव संवर्ग: ' इत्यादिश्रुत्यन्तराद्ध- ( १ ) °वं पूर्वेष्वपि यद्यत्तदधीनं फलं - इति पाठः । ( २ ) ? तुलय–त्र. सू. ४- ३. १५. ( ३ ) छां. उ. ४. ३. १. (४) तस्मादाका ° - पाठः । ( ५ ) अपपाठोऽयम् । “ अथातो ब्रह्मणः परिमरः । यो ह वै ब्रह्मणः परिमरं वेद पर्येनं द्विषन्तो भ्रातृव्याः परिसपत्ना त्रियन्ते । यं वै ब्रह्म योऽयं पवते तमेताः पञ्चदेवताः परिनियन्ते विद्युदृष्टिश्चन्द्रमा आदित्योऽग्निः " | ऐ. ब्रा. ८.५.२८.