पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३० तैत्तिरीयोपनिषत् क्षेम इति वाचि । योगक्षेम इति प्रा॑णानयोः । कर्म॑ति ह॒स्तयोः । गतिरि॑ति पा॒दयोः । विमु- क्तिरिति पायौ । इति मानुष: समाज्ञाः । अथ दे॒वीः । तृप्तिरि॑िति वृष्टौ । वि॒द्युति ( २ ) । यश इ॑ति ज्योतिरि॑ति न॑क्षत्रे॒षु । नन्द इ॑त्युप॒स्थे । सर्वमि॑त्याशे । बलमिति प॒शुषु । प्रजातिरमृतमा- 6 क्षेम इति वाचि - क्षेमो नामोपात्तपरिरक्षणम् - ब्रह्म 'वाचि' क्षेमरूपेण प्रतिष्ठितमित्युपास्यम् । योगक्षेम इति – 'योगः' अनुपात्तस्योपादानम् । तौ हि ' योगक्षेमौ' प्राणापानयोः बलवतोः सतोर्भवतो यद्यपि, तथाऽपि न प्राणा- पाननिमित्तावेवः किं तर्हि ? ब्रह्मनिमित्तौ । तस्माद्ब्रह्म योगक्षेमात्मना प्राणा- पानयोः प्रतिष्ठितमित्युपास्यम् । एवमुत्तरेष्वन्येषु तेन तेनाऽऽत्मना ब्रह्मैवोपा- स्यम् । कर्मणो ब्रह्मनिर्वर्त्यत्वाद्धस्तयोः कर्मात्मना ब्रह्म प्रतिष्ठितमित्युपास्यम् । गतिरिति पादयोः । विमुक्तिरिति पायौ । इत्येता मानुषीर्मनुष्येषु भवा मानुष्यः समाज्ञाः– आध्यात्मिक्यः समाज्ञा ज्ञानानि विज्ञानान्युपासनानीत्यर्थः । [ भृगु - वल्ली अथानन्तरं दैवीदैव्यः—देवेषु भवाः – समाज्ञा उच्यन्ते । तृप्तिरिति वृष्टौ । वृष्टेरन्नादिद्वारेण तृप्तिहेतुत्वात् ब्रह्मैव तृप्त्यात्मना वृथै व्यवस्थितम् इत्यु - पास्यम् । तथाऽन्येषु तेन तेनाऽऽत्मना ब्रह्मैवोपास्यम् । तथा बलरूपेण ‘विद्युति ' । यशोरूपेण 'पशुषु' । ज्योतीरूपेण ‘नक्षत्रेषु'। ‘प्रजातिरमृतम्' अमृतत्वप्राप्तिः पुत्रेण ऋणविमोक्षद्वारेण -'आनन्दः ' सुखमित्येतत्सर्वमुपस्थ- निमित्तं;—ब्रह्मैवानेनाऽऽत्मनोपस्थे प्रतिष्ठितमित्युपास्यम् । सर्वे ह्याकाशे प्रति- ष्टितम् । अतो यत्सर्वमाकाशे, तद्ब्रह्मैवेत्युपास्यम् । उपासनमपि फलानभिसंधिनाऽनुष्ठितं बुद्धिशुद्धिद्वारेण ब्रह्मज्ञानायोपकरोतीत्युक्तं, मुख्या. धिकारिणस्त्वपवादायोपकरिष्यति । (१) मूत्रपुरीषविसर्गः । · '