पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ अष्टमोऽनुवाकः ] उपासना स य ए॒वदनमन्ने मति॑ष्ठितं॒ वेद॒ प्रति॑ति - वृति । अनवानन्नादो भवति । म॒हान्भ॑वत प्र॒जया॑ प॒शुभर्ब्रह्मवर्च॒रे । महान् । .इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि भृगुवल्ल्यां सम्मोऽनुवाकः ॥ ७ ॥ १२७ अथाष्टमोऽनुवाकः ( अन्नब्रह्मोपासकवतम् ) अन्नं न परि॑िचक्षीत । तद्व्रतम् । 'तत्तस्यान्नं भवतीति । शरीरे च प्राणः प्रतिष्ठितः, तस्मात्प्राणोऽन्नं, शरीरमन्ना- दम् । तथा शरीरमप्यन्नं, प्राणोऽन्नादः; कस्मात् ? प्राणे शरीरं प्रतिष्ठितम्- तन्निमित्तत्वाच्छरीरस्थितेः । तस्मात्तदेतदुभयं शरीरं प्राणश्चान्नमन्नादश्च । येनान्योन्यस्मिन्प्रतिष्ठितं, तेनान्नम्; येनान्योन्यस्य प्रतिष्ठा तेनान्नादः । तस्मा- त्प्राणः शरीरं चोभयमन्नमन्नादं च | सय एवमेतदन्नमन्ने प्रतिष्ठित वेद प्रतितिष्ठत्यन्नान्नादात्मनैव । किंच, अन्न- वानन्नादो भवतीत्यादि पूर्ववत् । इति श्रीमत्परमहंसपरित्राजकाचार्य गोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः कृतौ तैत्तिरीयोपनिषदि भृगुवल्लीभाष्ये सप्तमोऽनुवाकः ॥ ७ ॥ अन्नं न परिचक्षीत न परिहरेत् । तद्व्रतं पूर्ववत्स्तुत्यर्थम् - तदेवं शुभाशुभ- कल्पनयाऽपरिगृह्यमाणं - अपरिहियमाणं स्तुतं महीकृतमन्नं स्यात् । एवं यथो- रासमर्थस्य मन्दाधिकारिणोऽन्नान्नादरूपेण प्राणायुपासनं गौणं साधनं विधत्ते - प्राणो वा अञ्चमित्यादिना | इति श्रीमत्परमहंसपरिव्राजकाचार्यश्री मच्छुद्धानन्दशिष्यानन्दज्ञानविरचिते तैत्तिरीयोप- निषच्छांकरभाष्यटिप्पणे भृगुवल्यां सप्तमोऽनुवाकः ॥ ७॥