पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ तैत्तिरीयोपनिषत् आपो॒ वा अन॑म् । ज्योति॑र॑ना॒दम् । अ॒प्सु ज्योति॒ प्रति॑ष्ठतम् । ज्योति॒ष्याप॒ प्रति॑ष्ठताः । तदेतदन्न॒मन्ने॒ प्रति॑ष्ठितम् । स य ए॒तद॑न्न॒म॑न्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति । अन्न॑वान्दो भ॑वति । म॒हा॒न्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । स॒हान्क॒र्त्या ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोनिषदि भृगुवल्ल्या- मष्टमोऽनुवाकः ॥ ८ ॥ तमुत्तरेष्वपि आपो वा अन्नमित्यादिषु योजयेत् । अप्सु ज्योतिरिति अब्ज्योति- षोरन्नान्नादगुणत्वेनोपासकस्यान्नस्य बहुकरणं व्रतम् । [ मृगु-बड़ी- इति श्रीमत्परमहंस परिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः कृतौ तैत्तिरीयोपनिषदि भृगुवल्यामध्मोऽनुवाकः ॥ ८॥ अथ नवमोऽनुवाकः (अन्नब्रह्मोपासकव्रतम्) अन्नं॑ ब॒हु कु॑र्वीत । तद्व्रतम् । पृथि॒वी वा अन्न॑म् । आ॒क॒र्शोऽन्ना॒दः । पृथि॒- व्यामा॑क॒ाशः प्रति॑ष्ठतः । आ॒क॒ाशे पृ॑थि॒वी प्रति॑ ष्ठिता । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् । सय ए॒तदन्न॒मन्ने प्रतिष्ठितं वेद॒ प्रति॑तिष्ठति । अन्न॑वानन्दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान्क॒र्त्या । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि भृगुवल्ल्या नवमोऽनुवाकः ॥ ९ ॥