पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ षष्ठोऽनुवाक: ] ब्रह्मविद्या आनन्द आत्मा सैषा भग॒वी वरुणी वि॒द्या | परमे व्योम- न्मति॑िष्ठिता । स य एवं वेद॒ प्रति॑ितिष्ठति । १२५ अन्न॑वानन्ना॒ादो भ॑वति । म॒हान्भ॑वति । प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । महान्कीर्त्या ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि भृगुवल्ल्यां षष्ठोऽनुवाकः ॥ ६॥ अधुनाऽऽख्यायिकोमुपसंहृत्य, श्रुतिः स्वेन वचनेनाऽऽख्यायिकानिवृत्तमर्थ- माचष्टे - सैषा भार्गवी भृगुणा विदिता वरुणेन प्रोक्ता वारुणी विद्या परमे व्योमन्छ- विद्योपसंहारः । दयाकाशगुहायां परम आनन्देऽद्वैते प्रतिष्ठिता परिसमाप्ता- ऽन्नमयादात्मनोऽधिप्रवृत्ता। य एवमन्योऽपि तपसैव साधनेमानेनैव क्रमे- विद्याफलम् । णानुप्रविश्याऽऽनन्दं ब्रह्म वेद, स एवं विद्याप्रतिष्ठानात्प्रति- तिष्ठत्यानन्दे परमे ब्रह्माण- ब्रह्मैव भवतीत्यर्थः । दृष्टं च फलं तस्योच्यते- अन्नवान्प्रभूतमन्नमस्य विद्यत इत्यन्नवान्– सत्तामात्रेण तु सर्वो ह्यन्नवा- निति विद्याया विशेषो न स्यात् । एवमन्नमत्तीत्यन्नादः, दीप्ताग्निर्भवतीत्यर्थः । सर्वैः प्रार्थ्यमानतयाऽऽनन्दशब्दवाच्यं मायाविशिष्टं ब्रह्मेति विज्ञाय - विशिष्टस्याविशिष्टान्तरात्म- त्वानुपपत्तेः कारणत्वोपलक्षितं विशुद्धानन्दं ब्रह्मेति विज्ञातवानित्यर्थः । प्रभूतत्वविशेषणमश्रुतं कथं निक्षिप्यते ? इत्याशङ्कयाह – सत्तामात्रेणेति । अनं- ( १ ) ०यिकातोऽपसृत्य — इति पाठः । ( २ ) निर्वर्त्य ० पाठः । ( ३ ) ननु अत्रान्नप्राणमनोविज्ञानक्रमेण पञ्चमपर्यायाम्नातस्यानन्दस्य प्राधान्यदर्शनात् आनन्दवल्यामप्यन्नमयादिक्रमेण पञ्चमपर्यायाम्नातस्यानन्दमयस्य प्राधान्येन प्रतिपाद्यत्वं स्थानसाम्यादनुमीयते इति चेत्, न । कामाच नानुमानापेक्षा – ( त्र. सू. १. १. १८. ) काम्यते—इति कामः भृगुवल्याम्नात आनन्दः । एतद्दृष्टान्तमवलम्ब्यानन्दमयस्य प्राधान्यानुमानेऽपि प्रत्याशा न कार्या । इह श्रुत्यैवानन्दस्य उपक्रान्तब्रह्मरूपतायाः " आनन्दो ब्रह्मेति व्यजानात् " इति साक्षात्, " आनन्दाद्धयेव खल्विमानि भूतानि जायन्ते " इति लक्षणमुखेन च पर्यवसानप्रतिपादनात् । तदनन्तरमन्यस्य प्रतिपादनाभावात् । तत्र तु आनन्दमयप्रतिपादनानन्तरं ब्रह्मप्रतिपादनात् तत्रैव पूर्वोत्तरसं- दर्भसमन्वय इति वैषम्यसद्भावात् । ( ४ ) अन्नस ° इति पाठः । " ु