पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ तैत्तिरीयोपनिषत् अथ पञ्चमोऽनुवाकः ( ब्रह्मविज्ञाने चतुर्थः पर्यायः ) · वि॒ज्ञानं॒ ब्रह्मेति॒ व्य॑जानात् । वि॒ज्ञानाद्धयैव खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । वि॒ज्ञाने॑न॒ जावा॑नि॒ जीव॑न्ति । विज्ञानं॒ प्रय॑न्त्य॒भिसं- वि॑िश॒न्तीति॑ । तद्वज्ञाय॑ । पुन॑रे॒ वरु॑णं पितरमुप॑ससार । अधी॒हि भगवो॒ ब्रह्मेति॑ । त५ होवाच । तप॑सा ब्रह्म॒ विजि॑िज्ञासस्व | तो ब्रह्मेति॑ । स तपो॑ऽत- प्यत । स तप॑स्त॒प्त्वा । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि भृगुवल्ल्यां पञ्चमोऽनुवाकः ।। ५ ।। अथ षष्ठोऽनुवाकः ( ब्रह्मविज्ञाने पञ्चमः पर्यायः ) आनन्दो ब्र॒ह्मेति॒ व्य॑जानात् । आनन्दा- द्धये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । आन॒न्देन॒ जाता॑नि॒ जीव॑न्ति । आ॒न॒न्द॑ प्रय॑न्त्य॒विस॑वि॑श॒न्तरि॑ति॑ । [ भृगु-वल्ली शनैः एवं तपसा विशुद्धात्मा प्राणादिषु साकल्येन ब्रह्मलक्षणमपश्य, तृषसैव आत्मवीक्षणम्। शनैरन्तरनुप्रविश्य, अन्तरतममानन्दं ब्रह्म विज्ञातवांस्तप- सैव साधनेन भृगुः । तस्माद्ब्रह्म विजिज्ञासुना बाह्यान्तःकरणसमाधानलक्षणं परमं तपःसाधनमनुष्ठेयमिति प्रकरणार्थः । तस्यापि कार्यत्वाल्लक्षणं परिपूर्ण न भवतीति विचार्य, तत्कारणं स्वातन्त्र्येण निश्चित्य- ( १ ) °तन्त्र्ये सति स° इति पाठः ।