पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ चतुर्थोऽनुवाकः ] ब्रह्मविज्ञानसाधन जीवन्ति । प्राणं प्रयन्त्यभिसंविशन्तीति । तवि॒ज्ञाय॑ । पुन॑रे॒व वरु॑णं पित॑र॒मुप॑ससार । अर्धीहि भगवो ब्रह्मेति॑ । त५ हौवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति॑ि । स तपतप्यत । स तप॑स्त॒प्त्वा । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि भृगुवल्ल्यां तृतीयोऽनुवाकः ॥ ३ ॥ अथ चतुर्थोऽनुवाकः ( ब्रह्मविज्ञाने तृतीयः पर्यायः ) मनो॒ ब्रह्म॑ति॒ व्य॑जानात् । मन॑सो॒ो ह्ये॑व खल्व॒- मानि॒ भूता॑नि॒ जाय॑न्ते । मन॑सा॒ा जाता॑नि॒ जीव॑न्ति । मन॒ प्रय॑न्त्य॒भिस॑वि॑श॒न्तीति॑ । तद्विज्ञाय॑ । पुन॑रे॒व वरु॑णं पितरमुप॑ससार । अधी॒हि भगवो॒ ब्रह्मेति॑ । त५ होवाच । तप॑सा ब्रह्म विजिज्ञासट्र । तो ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒रुवा । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि भृगुवल्ल्या चतुर्थोऽनुवाकः ॥ ४ ॥ विचार्य च तत्कारणं क्रियाशक्तिविशिष्टतया प्राणशंन्दलक्ष्यं हिरण्यगर्भं संकल्पाध्यवसायस- तिविशिष्टतया च मनोविज्ञानशब्दलक्ष्यम् ' ब्रह्मेति व्यजानात्' । इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीमच्छुद्धानन्दशिष्यानन्दज्ञानविरचिते तैत्तिरीयोपनि- षच्छांकरभाष्यटिप्पणे भृगुवलयां तृतीयोऽनुवाकः॥ ३॥ ( १ ) ० विषयत इति पाठः । ( २ ) ० शक्तिल० इति पाठः ।