पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ तैत्तिरीयोपनिषत् तद्वद्वज्ञाय॑ । पुन॑रे॒व वरु॑ण॒ पितर॒मुप॑ससार । अर्धी भो ब्रति॑ । त५ होवाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा । इति कृष्णयजुर्वेद रातत्तिरीयोलनिषदि भृगुवल्ल्यां द्वितीयोऽनुवाकः ॥ २ ॥ अथ तृतीयोऽनुवाकः ( ब्रह्मविज्ञाने द्वितीयः पर्यायः) प्रा॒णो ब्र॒ह्मेति॒ व्य॑जानात् । प्रा॒णाद्ध्ये॑व खल्व॒- मानि॒ भूता॑नि॒ जायन्ते । प्राणेन॒ जाता॑नि॒ [ भृगु चल्ली कार्यत्वप्रतीत्या अपरितोषः स एवं तपस्तप्त्वा, अन्नं ब्रह्मेति विज्ञाय लक्षणेनोपपत्त्या च, पुनरेव संशय- मापनो वरुणं पितरमुपससार--अधीहि भगवो ब्रह्मेति । कः पुनः संशयहेतुरस्य ? इत्युच्यते –अन्नस्योत्पत्तिदर्शना । तप सः पुनः पुनरुपदेशः साधना तिशयत्वावधारणार्थः । यावद्ब्रह्मणो लक्षणं निर- तिशयं न भवति; यावञ्च जिज्ञासा न निवर्तते, तावत्त एव ते साधनम् | तपसैव ब्रह्म विजिज्ञासस्वेत्यर्थः । ऋज्वन्यत् ॥ इति श्रीमत्परमहंसपरित्राजकाचार्यगोविन्दभगत्पूज्यपादशिष्य श्रीमच्छंकरभग- वतः कृतौ तैत्तिरीयोपनिषदि भृगुवल्लीभाष्ये द्वितीयोऽनुवाकः ॥ २ ॥ तप एव साधनम् स च तपस्तत्वरि । कुत्रेदं पित्रोक्तं लक्षणं ? क्वेदं लक्षणं वर्तते ? परिपूर्ण भवती- त्येकाग्रेण चेतसा पर्यालोच्य, 'अन्नं ब्रह्मेति व्यजानात्' अद्यते भुज्यत उपलभ्यते सर्वैरिति सर्वप्रतिपत्तृसाधारणं स्थूलदेहकारणं भूतपञ्चकं विराट्संज्ञकमन्त्रशब्देनोच्यते, तस्य स्थूल- भौतिककारणत्वात् । ' यतो वा इमानि भूतानि ' इतिलक्षणस्य तत्र योजयितुं शक्यत्वाद, तद्भयेति प्रतिपन्नवानित्यर्थः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धा नन्दशिष्यानन्दज्ञानविरचिते तैत्तिरयििोपनिष- च्छांकरभाष्यटिप्पणे भृगुवल्ल्यां द्वितीयोऽनुवाकः ॥ २॥ विराज उत्पत्तिदर्शनाच्छुतिस्मृतिषु, लक्षणं तत्र संपूर्ण न भवतीति पुनस्तपोऽतप्यत,