पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ भृमुवल्ली ( ब्रह्ममीमांसा ) अथ प्रथमोऽनुवाक ह॒रि॒ः ॐ । स॒ह ना॑ववतु । स॒ह नौ भुनक्तु । सह वीर्ये करवावहै । तेजस्वि वर्धीतमस्तु॒ मा वि॒द्वष॒ावने॑ । ॐ शान्तिः शान्तिः शान्तिः । (पुराणम् - उपाख्यानम्) भूगर्वै वरुणिः । वरु॑ण॒ पत॑र॒मुप॑ससार । अधी॒हि भगवो॒ ब्रह्मेति॑ । ' सत्यं ज्ञानमनन्तं ब्रह्म ' आकाशादिकार्यमन्नमयान्तं सृष्ट्वा तदेवानुप्रविष्टं आनन्दवल्लीतात्पर्यार्थः विशेषवदिवोपलभ्यमानं यस्मात् तस्मात् सर्वकार्यविल- क्षणमदृश्यादिधर्मकमेवाऽऽनन्दं तदेवाहमिति विज्ञानीयात् अनुप्रवेशस्य तदर्थत्वात्; तस्यैवं विजानतः शुभाशुभे कर्मणी जन्मान्तरारम्भकें न भवतः, इत्येवमानन्दबल्ल्यां विवक्षितोऽर्थः । परिसमाप्ता च ब्रह्मविद्या | अतः परं ब्रह्मविद्या साधनं तपो वक्तव्यम्, अन्नादिविषयाणि चोपासना भृगुवली प्रवृत्तिनिमित्तम् नुक्कानि, इत्यत इमारभ्यते- आख्यायिका विद्या॑स्तुतये, प्रियाय पुत्राय पित्रोत्तेति – भृगुर्वै वारुणिः । गुरूपसत्तिः 'वै ' शब्दः प्रसिद्धानुस्मारकः - भृगुरित्येवंनामा प्रसिद्धो- ऽनुस्मार्यते । वारुणिर्वरुणस्यापत्यं वारुणिरुणं पितरं ब्रह्म विजिशानुरुप ससारोपगतवान् - अधीहि भगवो ब्रह्मेत्यनेन मन्त्रेणं | अधीहि-अध्याय- कथयेत्यर्थः । स च पिता विधिवदुपसन्नाय तस्मै पुत्रायैतद्वचनं प्रोवाच- ब्रह्मबोधद्वारम् - " अनं प्राणं चक्षुः श्रोत्रं मनो वाचम् ” इति । 'अन्नं शरीरं, अन्तरङ्गसाधनम् तद्भ्यन्तरं च 'प्राणं अत्तारम्, अनन्तरमुपलब्धिसाघ- नानि चक्षुः, श्रोत्रं, मनः, वाचम्— इत्येतानि ब्रह्मोपलब्धौ द्वाराण्युक्तवान् । " 6 ? , ( १ ) ब्र. सु. ३. ४. २३-२४. ( २ ) ० नुस्मर्य० इति पाठः ।