पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० तैत्तिरीयोपनिषत् तस्मा॑ ए॒तत्वाच । अन्ने॑ प्रा॒णं चक्षुः श्रोत्रं मनो॒ वाच॒मिति॑ । तोवाच । यो वा इमानि॒ भूता॑नि॒ जाय॑न्ते । येन॒ जाता॑नि॒ जीव॑न्त । यत्प्रय॑न्त्य॒भिस॑वि॑- शन्ति । तद्विजि॑िज्ञासस्व । तद्ब्रह्मेति । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि भृगुवल्ल्यां प्रथमोऽनुवाकः ॥ १ ॥ [भृगु -बल्ली उक्त्वा च द्वारभूतान्येतान्यन्नादीनि, तं भृगुं होवाच ब्रह्मणो लक्षणम् । किं तत् ? यतो यस्माद्वा इमानि ब्रह्मादीनि स्तम्बपर्यन्तानि भूतानि जायन्ते, येन जातानि जीवन्ति – प्राणान्धारयन्ति - वर्धन्ते, विनाशकाले च यत्प्रयन्ति या प्रतिगच्छन्ति, अभिसंविशन्ति तादात्म्यमेव प्रति- पद्यन्ते, उत्पत्तिस्थितिलयकालेषु यदात्मतां न जहति भूतानि, प्राणादीनि उपलक्षकाणि तदेतद्ब्रह्मणो लक्षणम् । ब्रह्मजिज्ञासा तद्ब्रह्म विजिज्ञासस्वं विशेषेण ज्ञातुमिच्छस्व – यदेवलक्षणं ब्रह्म तदनादिवा- रेण प्रतिपद्यस्वेत्यर्थः । श्रुत्यन्तरं च –“ प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदुः, ते निचिक्युर्ब्रह्म पुराणमग्र्यम्" इति ब्रह्मोपलब्धौ द्वाराण्येतानीति दर्शयति स भृगुर्ब्रह्मोपलब्धिद्वाराणि ब्रह्मलक्षणं च श्रुत्वा पितुः, तपो ब्रह्मोपलब्धि- आध्यात्मिकं तपः साधनत्वेनातप्यत तप्तवान् । कुतः पुनरनुपदिष्टस्यैव तपसः साधकतमम् साधनत्वप्रतिपत्ति गोः ? सावशेषोक्तः–अन्नादि ब्रह्मणः प्रति- । वृत्तानुवादपूर्वकस्रुत्तरवल्लीसंबन्धमाह - सत्यं ज्ञानमित्यादिना | तप इति । पदार्थवि वरणं वाक्यार्थज्ञानसाधनमित्यर्थः । अधीहीति । अध्यापय स्मारय । “ इक्स्मरणे” इति धातुपाठादित्यर्थः । ब्रह्मोपलब्धाविति । लक्ष्यत्वमर्थविवेकाय द्वाराणि - शरीरादिचेष्टान्यथा- उपपच्या हि साक्षिभूतश्विद्धातुर्विविच्यत इति भावः । न केवलं त्वमर्थज्ञानं वाक्यार्थज्ञानसाधनं, किंतु तत्पदार्थज्ञानमपीत्यभिप्रेत्य तदर्थस्य ( १ ) त्र. सु. १. १. १–४. (२) बृ. उ. ४. ४. १८. (२) °लं लक्ष्यत्व॰ पाठः । $