पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ तैत्तिरीयोपनिषत् ' .. " ( शान्तिः ) स॒ह ना॑ववतु । स॒ह नो॑ स॒नक्तु । स॒ह वी॒र्य॑ करवावहै । तेजस्व नि॒ावर्धीतमस्तु॒ मा वि॑िद्वष॒व । ॐ शान्तः शान्तः शान्तिः । [ ब्रह्म- आनन्द - वल्ली इति श्रीकृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि ब्रह्म — आनन्द – वल्ली समाप्ता ॥ २ ॥ विशेषरूपेण शून्ये कृत्वाऽऽत्मानं स्पृणुत एव । कः ? य एवं वेद यथोक्तमद्वैत- मानन्दं ब्रह्म वेद, तस्याऽऽत्मभावेन दृष्टे पुण्यपापे निर्वीर्ये अतापके जन्मान्त- शरम्भके न भवतः । इतीयमेवं यथोक्ताऽस्यां वलयां ब्रह्मविद्योपनिषत् सर्वाभ्यो विद्याभ्यः परमरह- स्यं दर्शितमित्यर्थः । परं श्रेयोऽस्यां निषण्णमिति । इति श्रीमत्परमहंसपरित्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्य श्रीमच्छंकरभगवतः. कृतौ तैत्तिरीयोपनिषदि ब्रह्म — आनन्द - वल्लीभाष्ये नवमोऽनुवाकः ॥ ९ ॥ ब्रह्मविदिदमेकवि ५ शतिरन्नादन्न रस मयात्प्राणो व्यानोऽपान आकाशः पृथिवी पुच्छ ५ षड्वि शतिः प्राणं यजुर्ऋक्सामाऽऽदेशोऽथर्वाङ्गिरसः पुच्छं द्वाविश- तिर्यतः श्रद्धर्त : सत्यं योगो महोऽष्टादश विज्ञानं प्रियं मोदः प्रमोद आनन्दो ब्रह्म पुच्छं द्वावि शतिरसन्नेवाष्टावि ५ शतिरसत्षोडश भीषाऽस्मादेकपञ्चाशद्यतः कुतश्चैकादश ॥ इति श्रीमत्परमहंस परिव्राजकाचार्यश्रीमङ्गोविन्दभगवत्पूज्यपादशिष्यशंकरभगवतः कृतौ तैत्तिरीयोपनिषद्भाष्ये ब्रह्म — आनन्द - वल्ली सामाप्ता ॥ २ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दभगवत्पूज्यपादशिष्यानन्दज्ञानविरचिते तैत्तिरीयोष- निषच्छांकरभाष्यटिप्पणे ब्रह्म——आनन्द वल्ली समाप्ता ॥ २ ॥