पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ नवमोऽनुवाकः ] आत्मज्ञानस्य तापनिवारकत्वम् ब्रह्मविदो न पुण्यपापलेपः स य ए॒वं विद्वानेते आत्मा॑नस्पृ॒ण॒ते । उ॒भे ह्ये॑षु॒ ए॒ते आत्मा॑नः स्पृ॒ण॒ते । य एवं वेद॑ । इत्यु॑प॒निषेत् । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि ब्रह्म — आनन्द वल्ल्यां नवमोऽनुवाकः ॥ ९ ॥ .११७ मरणकाले; तथा किं कस्मात्पापं प्रतिषिद्धं कर्माकरवं कृतवानस्मीति च नरकपतनादिदुःखभयात्तापो भवति; ते एते साध्वकरणपापक्रिये एवमेनं न तपतः, यथाऽविद्वांसं तपतः । कस्मात्पुनर्विद्वांसं न तपतः ? इत्युच्यते- सय एवंविद्वान् एते साध्वसाधुनी तापहेतू इत्यात्मानं स्पृणुते प्रणियाते, बलयति वा-परमात्मभावेनोभे पश्यतीत्यर्थः । उभे पुण्यपापे हि यस्मादेवमेष विद्वानेते आत्मानमात्मरूपेणैव पुण्यपापे स्वेन साध्वसाधुनी स्तः, प्रकाशेते चेति सत्प्रकाशमात्रमात्मतत्त्वमेव तयोः स्वरूपं, ततोऽति- रिक्तं यदर्थानर्थहेतुत्वं नामविशेषरूपं, तत्र वस्तु - सत्प्रकाशान्यत्वेनासत्त्वात्, अप्रकाशमान- त्वाचेत्यभिप्रेत्याऽऽह–स्वेन विशेषरूपेणेति । आत्मैवाविद्यया साध्वसाधुरूपेण प्रतिपन्न आसीतः इदानीं तु ये साध्वसाधुनी ममार्थानर्थहेतू बभूवतुः, ते आत्मैव, इति ज्ञानेन स्वात्मानं साध्वसाधुकरणेन प्रीणयत्येव - लोकदृष्ट्या निष्पद्यमाने पुण्यपापे दृष्ट्वा हृष्यति विद्वान बिभेतीत्याह- स्पृणुत एवति । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दशिष्यानन्दज्ञानविरचिते तत्तिरीयोप- निषच्छांकरभाष्यटिप्पणे ब्रह्म — आनन्द वल्ल्यां नवमोऽनुवाकः ॥ ९ ॥ ( १ ) आत्मनो बलस्य स्वाभाविकत्वात् किं विद्याकृतेन बलेन ? — इत्याशंक्याऽऽह — अविद्येति । आत्म- बलस्य स्वाभाविकत्वेऽप्यविद्याकृतदौर्बल्यस्य विद्यया निरसने स्वाभाविकबलाभिव्यक्तेः, विद्याधीनमस्य बल- मभीष्टमित्यर्थः । सार्वभौमादिकानन्दाः पूर्वेभ्यः शतसंख्यया | परेऽधिकास्ते तु लेशा ब्रह्मानन्दस्य बिन्दुवत् ॥ १३९ ॥ तस्मादियत्ता नैवास्य वक्तुं ध्यातुं च शक्यते । न बिभेत्येव तं विद्वान् जन्महेतोः कुतश्चन ॥ १४० ॥ पुण्यं नाकरवं कस्मात् पापं तु कृतवान् कुतः । इति चिन्ता तपत्यज्ञं ज्ञानिनं न तपत्यसौ ॥ १४१ ॥ तापकत्वं तयोर्विद्वानुपेक्षानुष्ठितं तयोः । आत्मानं प्रीणयन् बोधात्सुदृढीकुरुते घियम् ॥ १४२ ॥ – तैत्तिरीयकविद्याप्रकाशः