पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तैत्तिरीयोपनिषत् [ ब्रह्म- आनन्द - वल्ली ए॒तह वाव॑ न त॒पति । किमह साधुं नाकरवम् । किमहं पापमकस्मि॒ति । एतं यथोक्तमेवंविदम्ः ह वावेत्यवधारणार्थो । न तपति नोद्वेजयति- ~न सं- तापयति । कथं पुनः साध्वकरणं पापक्रिया चन तपति ? इत्युच्यते – किं कस्मात्साधु शोभनं कर्म नाकरवं न कृतवानस्मीति पश्चात्संतापो भवत्यासन्ने ११६ पुण्यपापयो- स्तापहेतुत्वम् 66 ' स यदाइ असतो मा सद्गमयेति मृत्युर्वासत् सदमृतं मृत्योर्माऽमृतं गमय अमृतं मा कुर्वित्येवैतदाइ ” ( १. ३. २८.) इति सच्छब्दोक्तामृतावाप्त्यर्थत्वश्रुतेर मृताभेदाभिव्यक्त्यर्थतया व्याख्यातत्वेन मुक्तिफलप्रतिपा- दकेषु वाक्येषु ब्रह्मावाप्तिश्रवणानां तद्भावापत्तिपरत्वावगमात् । ततश्च किं तद्ब्रह्म ? कीदृशं तद्वेदनम् ? कीदृशी च तद्भावापत्तेः पुरुषार्थरूपता ? -- इत्याकाङ्क्षायां " सत्यं ज्ञानमनन्तं ब्रह्म ” इति स्वरूपलक्षणेन ब्रह्मस्वरूपं निर्धार्य "यो वेद निहितं गुहायाम्” इति तद्ब्रह्म जीवस्वरूपेण हृदयगुहायां निवेशितं जीवाभिन्नं 'यो वेद' इति' तद्वेदनं जीवाभेदविषयमिति प्रदर्य तत्फलभूतायास्तद्भावापत्तेर्निरतिशयपुरुषार्थरूपत्वं ' सोऽश्नुते' इत्यादिना प्रतिपादितम् । तत्र ‘ ब्रह्मणा ' इतीत्थंभूतलक्षणे तृतीया । तथाच ब्रह्मणा रूपेण सर्वान् कामान् सह युगपद- अनुते । सर्वेषा मैहिकामुष्मिकाणां काम्यानां क्रमिकेणोपभोगेन यावत्सुखमभिव्यङ्गयं तत्सर्वं ब्रह्मसुखाम्बुधिकणि- कायमानमिति विद्ययाऽभिव्यक्तं निरतिशयं ब्रह्मसुखाम्बुधिमनुभवतीत्यर्थः । न तु ब्रह्मणा सह सर्वान् विष भोगानश्नुते–इत्यर्थः । ब्रह्मणा सह इत्यन्वयस्य "सोऽश्नुते सर्वान् कामान् सह ' इत्यत्राध्ययनसंप्रदायप्राप्त- वाक्यविच्छेदाननुगुणत्वात् । सहार्थतृतीयया ब्रह्मणः कर्मसाहित्ये कर्तृसाहित्ये वा विवक्षिते भोग्यविषयापे- क्षया भोक्तृजीवापेक्षया वा अप्राधान्यप्रसङ्गेन ब्रह्मणो निरतिशयपुरुषार्थत्वस्य निरतिशयैश्वर्यस्य वा हानिप्रस - ङ्गाच्च । न च ‘सर्वान् कामान्' इत्यस्य स्वारस्यहानिः । न ह्यस्मिन्मते कामशब्दः स्रक्चन्दनादिविषयवाची । किंतु तत्संबन्धाभिव्यङ्गयसुखवाची, तेषामेव निरुपाधिकका मनाविषयत्वात् । ततश्च त्रैकालिकानि सर्वजीवानु- भाव्यानि सर्वाण्यपि सुखानि ' एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति ' इति श्रुतेर्ब्रह्मानन्दसिन्धो- र्बिन्दुकणिका इति ब्रह्मरूपेण स्वाभिन्नमखण्डानन्दमनुभवता सर्वाण्यपि सुखान्यनुभूयन्त एव । यथा सर्वेषु जीवेषु भूगोलकादेरॆकैकं भागं पश्यत्सु सर्वदृग्विषया भागाः सर्वज्ञेनानुभूयन्ते — इति न कापि स्वारस्यह्नानिः । प्रत्युत ' सर्वान् कामान् ' इत्यस्यासंकोचलाभादत्रैव स्वारस्यम् । तस्मात् 'सोऽश्नुते' इत्यादेर्यथोक्त एवार्थः । अत एवोपबृंहितं ब्रह्मगीतासु " सोऽश्नुते सकलान् कामानक्रमेण सुरर्षभाः । विदितब्रह्मरूपेण जीवन्मुक्तो. न संशयः” ॥ ( ३. ३२. ) इति । ततश्च ब्रह्मणो लक्षणे आनन्त्यान्तर्गतं वस्तुपरिच्छेदराहित्यं प्रपञ्चस्य प्रतिपन्नोपाधिगतनिषेधप्रतियोगित्वलक्षणमिथ्यात्वेनोपपादयितुम् " आत्मन आकाश: " इत्यादिना ब्रह्मणो जग - दुपादानत्वप्रतिपादनेन तत्र प्रपञ्चाध्यारोपः कृतः । ब्रह्मण उपादानत्वेऽपि सृष्टिनियमनादिषु निमित्तान्तरस- द्भावे वस्तुपरिच्छेदः स्यादिति शङ्कानिरासार्थम् " सोऽकामयत ” इति सृष्टयै, “ भीषाऽस्माद्वातः पवते इति नियमनेऽपि निमित्तत्वं दर्शितम् । एवमारोपितस्य प्रपञ्चस्य " यतो वाचो निवर्तन्ते " इत्यत्रापवाद उपदिश्यते । अस्य हि मन्त्रस्यायमर्थ :- यथा शुक्तिकायामध्यस्तरजततादात्म्योल्लेखितया प्रवृत्तेन मनसा सइ ‘ रजतमिदम् ’ इति व्यवहारः शुक्तित्वपर्यन्तमप्राप्य, ' नेदं रजतम् ' इति बाधे सति निवर्तते, एवं ब्रह्मण्यध्यस्तप्रपञ्चतादात्म्योल्लेखितया ' सन् घटः, सन् पट: ' इत्यादिप्रकारेण प्रवृत्तेनान्तःकरणेन सह तत्र प्रवृत्ता वटपटादिशब्दा अप्यखण्डाकार पर्यन्तमप्राप्य “ अथात आदेशो नेति नेति ” (बृ. उ. २. ३.६.) इत्यादि श्रौत बाघे सति निवर्तन्ते - इति । न्यायरक्षामणिः १.१.१७.