पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मणोऽवाङ्- मनसगोचरत्वम् अथ नवमोऽनुवाकः (निर्विकल्पं ब्रह्म) यतो॒ वाच॒ निव॑र्तन्ते । अमा॑प्य॒ मन॑सा स॒ह । आनन्दं ब्रह्मणो वि॒द्वान् । न बिभेति कुत॑श्च॒ने॒ति । यतो यस्मान्निर्विकल्पाद्यथोक्तलक्षणादद्वयानन्दादात्मनो वाचोऽभिधानानि द्रव्यादिसविकल्पवस्तुविषयाणि वस्तुसामान्यान्निर्विकल्पेऽद्वयेऽपि ब्रह्मणि प्रे- योतृभिः प्रकाशनाय प्रयुज्यमानानि 'अप्राप्य' अप्रकाश्यैव निवर्तन्ते स्वसाम- र्थ्याद्वीयन्ते । 'मन' इति प्रत्ययो-विज्ञानम्; तच्च, यत्रामिधानं प्रवृत्तमतीन्द्रि- येऽप्यर्थे, तदर्थे च प्रवर्तते प्रकाशनाय; यत्र च विज्ञानं, तत्र वाचः प्रवृत्ति, तस्मात्सहैव धानो:--अभिधानप्रत्यययोः प्रवृत्तिः सर्वत्र । तस्माद्ब्रह्मप्रकाशनाय सर्वथा प्रयोक्तृभिः प्रयुज्यमाना अपि वाचो यस्मा- विद्या भयनाशदेतुः प्रत्ययविषयाद्नभिधेयादृद्दृश्यादिविशेषणात्सहैव 'मनसा' विज्ञानेन सर्वप्रकाशनसमर्थेन- निवर्तन्ते, तं ब्रह्मण आनन्दं श्रोत्रियस्यावृजिन- स्याकामहतस्य सर्वेषणाविनिर्मुक्तस्याऽऽत्मभूतं विषयविषयि संबन्धविनिर्मुक्तं स्वाभाविकं नित्यमविभक्तं परमानन्दं ब्रह्मणो विद्वान्यथोक्तेन विधिना न बिभेति कुतश्चन निमित्ताभावात् न हि तस्माद्विदुषोऽन्यद्वस्त्वन्तरमस्ति भिन्नं, यतो बिभेति । अविद्यया “यदा... उदमन्तरं कुरुते । अथ तस्य भयं भवति" इति युक्तम्, विदुषश्चाविद्याकार्यस्य, तैमिरिकदृष्टद्वितीयचन्द्रवत् नाशाद्भयनिमि- त्तस्य 'न बिभेति कुतश्चन' इति युज्यते । मंनोमये चोदाहृतो मन्त्रो मनसो ब्रह्मविज्ञानसाधनत्वात् । तत्र ब्रह्मत्वमध्यारोप्य, तत्स्तुत्यर्थ 'न बिभेति कदाचन' इति भयमात्रं प्रतिषिद्धम् । इहाद्वैतविषये 'न बिभेति कुतश्चन' इति भयनिमित्त- मेव प्रतिषिध्यते । नन्वस्ति भयनिमित्तं साध्वकरणं पापक्रिया च । नैवम् । कथमिति ? उच्यते- ( १ ) यानि लोके द्रव्यगुणाद्यनात्मविषये श्रोतृबुद्धिसिद्धयर्थं प्रयोक्तृभिः - वृद्धैर्वचांसि प्रयुक्तानि प्रतीयन्ते, तानि स्वार्थे प्रवृत्तिहेतोः षष्ठयादेर्निवृत्त्यैव ब्रह्मणो निवर्तन्ते; तस्मान्न ब्रह्मणो वाच्यता । (२) तै. उ. २. ४. ( ३ ) ननु ' यतो वाचो निवर्तन्ते । अप्राप्य मनसा सइ ' इत्याद्युपदेशः कथं प्रपश्चमिथ्यात्वपर्यवसायी ? उच्यते — इदं हि प्रकरणमध्यारोपापवादाभ्यां निष्प्रपञ्चब्रह्मस्वरूप निष्कर्षार्थम् । तथाहि - उपक्रमे ताक्त् ‘ ब्रह्मविदाप्नोति परम् ’ इति ब्रह्मविदस्तद्भावापत्तिलक्षणा मुक्तिरुक्ता | न तु तत्प्राप्तिलक्षणा | बृहदारण्य के