पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तैत्तिरीयोपनिषत् तदप्येष श्लोको भवति ।.. इति कृष्णयजुेतीयत्तनिपीयोशनिशदे ब्रह्म — आनन्द – वल्ल्यां अष्टमोऽनुवाकः ॥ ८ ॥ [ ब्रह्म-आनन्द-वल्ली तथा बाऽऽनन्दमयस्याऽऽत्मसंक्रमणमुपपद्यते । तस्मान्न प्राप्तिः संक्रमणं, नाप्य नमयादीनामन्यतमकर्तृकम्; पारिशेष्यान्नमयाद्यानन्दमयान्तात्मव्यतिरिक्तक- तृकं ज्ञानमात्रं संक्रमणमुपपद्यते । ज्ञानमात्रत्वे च आनन्दमयान्तःस्थस्यैव, सर्वान्तरस्य, आकाशाद्यन्नमयान्तं कार्ये सृड्डाऽनुप्रविष्टस्य — हृदयगुद्दाभिसं- बन्धादश्चमयादिष्ववात्मस्वात्मविभ्रमः संक्रमणांत्मकविवेक विज्ञानात्पत्त्या विन- श्यति । तदेतस्मिन्नविद्याविभ्रमनाशे संक्रमणशब्द उपचर्यते; न ह्यन्यथा सर्वगत- स्याऽऽत्मवः संक्रमण- पपद्यते । वस्त्वन्तराभावाञ्च–न च स्वात्मन एव संक्र- मणम्-न हि जलूकाऽऽत्मानमेव संक्रामति । तस्मात् "सत्यं ज्ञानमनन्तं ब्रह्म ” इति यथोलणात्मप्रतिपत्त्यर्थमेव बहुभवनसर्गप्रवेशरेसलाभाभयसंक्रम- णादि परिकल्प्यते ब्रह्मणि सर्वव्यवहारांविषये, न तु परमार्थतो निर्विकल्पे ब्रह्मणि कश्चिदपि विकल्प उपपद्यते । तमेतं निर्विकल्पमात्मानमेवं क्रमेणोपसंक्रम्य - विदित्वा — 'न बिभेति कुतश्च न', 'अभयं प्रतिष्ठां विन्दते' इत्येतस्मिन्नर्थेऽप्येष लोको भवति, सर्वस्यैवास्य प्रकरणस्याऽऽनन्द वल्लयर्थस्य संक्षेपतः प्रकाशनायैष मन्त्रो भवति । इति श्रीमत्परमहंस परिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्य श्रीमच्छंकरभगवतः कृतौ तैत्तिरीयोपनिषदि ब्रह्म – आनन्द – वल्लीभाष्येऽष्टमोऽनुवाकः ॥ ८ ॥ - पावस्थानस्यानागन्तुकत्वात्प्रक्रमविरोधाच न तन्मुख्यं संक्रमणमित्याह – नेति । ज्ञानमा त्रत्वे वा संक्रमणस्य किं फलतीत्यत आह – ज्ञानमात्रत्वे चेति । मुख्यासंभवे गौणार्थ- ग्रहणं न्याय्यमेव, अतोऽधिष्ठानयाथात्म्यप्रतिपत्त्या विशिष्टस्याध्यस्तस्य बाधनमेव संक्रमणं फलतीति भावः । इतश्च न मुख्यं संक्रमणमन्वेषणीयमित्याह – वस्त्वन्तराभावा- चेति । संक्रमणस्यौपचारिकत्वं व्याख्याय प्रकरणस्य महत्तात्पर्यमुपसंहारच्छलेनाऽऽह- तस्मादिति । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धा नन्दशिष्यानन्दज्ञानविरचिते तैत्तिरीयोप- निषच्छांकरभाष्यटिप्पणे ब्रह्म आनन्द – वल्ल्यामष्टमोऽनुवाकः ॥ ८ ॥ ( १ ) °मणेनऽऽत्मवि॰—पाठः । (२) ° रसाम; रसमय : पाठौ । ( ३ ) संव्यवहारविषये, सर्वव्यवहारविषये वा–पाठांतरम् ।