पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८'अष्टमोऽनुवाक:]. संक्रमणम् ११३' विद्याविद्ययोस्तद्धर्मत्वमिति चेन्न, प्रत्यक्षत्वात्-विवेकाविवेकौ रूपादिवत्प्र- विद्याविद्ये नात्मधर्मों त्यक्षावुपलभ्येते अन्तःकरणस्थौ; न हि रूपस्य प्रत्यक्षस्य सतो द्रष्टृधर्मत्वम् । अविद्या च स्वानुभवेनं रूप्यते - मूढोऽहमविविक्तं मम विज्ञानम् इति । तथा विद्याविवेकोऽनुभूयते, उपदिशन्ति चान्येभ्य आत्मनो विद्यां बुधाः, तथा चान्ये ऽवधारयन्ति, तस्मानामरूपपक्षस्यैव विद्याविद्ये, नाम- रूपे च नाऽत्मधर्मो–“नामरूपयोर्निर्वाहता, ते यदन्तराः तद्ब्रह्म” इति श्रुत्यन्त- रात् । ते च पुनर्नामरूपे सवितर्यहोरात्रे इव कल्पिते, न परमार्थतो विद्यमाने । अभेदे, “एतमानन्दमयमात्मानउपसंमति” इति कर्मकर्तृत्वानुपपत्तिरिति संक्रमणम्=विज्ञानम्, चेन्न; विज्ञानमात्रत्वात्संक्रमणस्य, न जलूकादिवत्संक्रमणमिहो- पदिश्यते । किं तर्हि ? विज्ञानमात्रं संक्रमणश्रुतेरर्थः । बाघः, ननु मुख्यमेव संक्रमणं श्रूयत उपसंक्रामतीति इति चेत्, न; अन्नमयेऽदर्शनात्- न ह्यन्नमयमुपसंक्रामतो बाह्यादस्माल्लोकाजलूकावत्संक्रमणं दृश्यते, अन्यथा वा | मनोमयस्य बहिर्निर्गतस्य विज्ञानमयस्य वा पुनः प्रत्यावृत्त्याऽऽत्मसंक्रमण- मिति चेत्, न; स्वात्मनि क्रियाविरोधात्, अन्योऽन्नमयमन्यमुपसंक्रामतीति प्रकृत्य, मनोमयो विज्ञानमयो वा स्वात्मानमेवोपसंक्रामतीति विरोधः स्यात् । शङ्कते–विद्याविद्ययोरिति । कल्पितयोर्विद्याविद्ययोरात्मनि भयाभयहेतुत्वसंभवानाऽऽत्म- धर्मत्वे प्रमाणमस्ति, प्रत्युत वेद्यत्वाद्र्पादिवदात्मधर्मत्वं नास्तीत्यनुमातुं शक्यत इत्याह- न, प्रत्यक्षत्वादिति । चिन्मात्रतन्त्राऽनादिरनिर्वाच्या विद्याऽन्तःकरणरूपेण परिणमते; तच्चान्तःकरणं तामससात्त्विकावस्थाभेदेन भ्रान्तिसम्यग्ज्ञानाकारेण परिणमते, तस्मिन्प्रति- बिम्बितथिद्धातुः स्वोपाधिधर्मेणैव भ्रान्तः सम्यग्दर्शीति च व्यवहियते, न तत्त्वतो विद्यावि- विशावत्वमित्याह – ते च पुनरिति । उक्तन्यायेन ब्रह्मवित्तत्त्वतो ब्रह्माभिन्न इत्युक्तम, तत्र परोक्तमुद्भाव्य निरस्यति- अभेदे, एतमित्यादिना । नाऽनन्दमयः परमात्मा, न च तत्र प्रवेशः संक्रमणं, किंत्वविषयब्रह्मात्मताज्ञानेनाऽऽनन्दमयस्याऽत्मतया भ्रान्तिगृहीतस्यातिक्रमणं बाघोड त्र विवक्षित इत्यर्थः । C अन्यथा वोत । नीडे पक्षिप्रवेशवद्वेत्यर्थः । यद्यप्यन्नमये मुख्यं संक्रमण न संभवति, तथाऽपि मनोबुद्धयोबहिर्विषये प्रवृत्तयोस्ततो व्याहत्य, स्वरूपेऽवस्थानं संक्रमणं दृष्टं, तथा आनन्दमयस्य स्वरूपेऽवस्थानं संक्रमणं भविष्यतीत्याह- मनोमयस्येति । स्वरू- ( ( १ ) °न निरू १ –– इति पाठः- 1 ( २ ) ० मौं । आकाशो इ वै नाम ना० - इति पाठः । ( ३ ) छां. उ. ८. १४. १. निर्बंहिता - निर्वोढा - व्याकर्ता; यस्य ब्रह्मणोऽतरा-मध्ये वर्तते । (४) दृढसंयोगंरूपप्राप्तिः । 4