पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ तैत्तिरीयोपनिषत् [ ब्रहा-आनन्द-वडी पेक्षः, विशेषश्च विक्रिया | जाग्रत्स्वप्नयोश्च ग्रहणं विशेषः यद्धि यस्य नान्या- पेक्षं स्वरूपं, तत्तस्य तत्त्वम्; गयाप्रे, न तत्तत्त्वम्, अन्याभावेऽभावात्,- तस्मात्स्वाभाविकत्वाज्जाग्रत्स्वप्रवन्न सुषुप्ते विशेषः । , येषां पुनरीश्वरोऽन्य आत्मनः, कार्ये चान्यत् तेषां भयानिवृत्तिर्भवस्या - भेदपक्षेऽभयप्रति- निमित्तत्वात्, सतश्चान्यस्याऽऽत्महानानुपपत्तिः, न चासत अनुपपत्तिः आत्मलाभः । सापेक्षस्यान्यस्य भयहेतुत्वमिति चेन्न, तस्यापि तुल्यत्वात् —– यद्धर्माद्यनुसहायीभूतं नित्यमनित्यं वा निमित्तमपेक्ष्य, अन्यद्भ- यकारणं स्यात् तस्यापि तथाभूतस्याऽऽत्महानाभावाद्भयानिवृत्तिः, आत्महाने वा सदसतोरितरेतरापत्तौ सर्वत्रानाश्वास एव । एकत्वपक्षे पुनः सनिमित्तस्य संसारस्याविद्याकल्पितत्वाददोषः–तैमिरि- कदृष्टस्य हि द्वितीयचन्द्रस्य नाऽऽत्मलाभो नाशो वाऽस्ति । सिद्धिप्रसङ्गात् । न तृतीयः- इत्याह- स्वाभाविकत्वादिति । अविकृतस्वरूपावस्थानं नाविव्याकार्यम्, अनागन्तुकत्वादित्यर्थः । एतत्स्फुटयति — द्रव्यस्य हीत्यादिना । सन्मात्रं द्रव्यमुच्यते, स्वातन्त्र्यसिद्ध्यभिप्रायेण, न वैशेषिकाभिप्रायेण क्रियावद्गुणवत्समवायिका- रणं द्रव्यं - मानाभावात्, इति द्रष्टव्यम् । अविक्रियेति । विक्रियाभावोपलक्ष्यं स्वरूपमन- पेक्ष्य सिद्धत्वादित्यर्थः । ग्रहणादिविक्रिया न स्वाभाविकी, परापेक्षत्वात्, स्फटिकलौहित्यवत्- इत्यर्थः । यदुक्तमनपेक्ष्य सिद्धत्वादविक्रियत्वमिति, तत्स्फुटयति – यद्धीति । एवं स्वमते चित्सत्ताव्यतिरिक्तेश्वरस्य भयहेतोरभावादभयं विदुषः संभवतीत्युपपाद्य, द्वैतीयपक्षे तदसंभवमाह —–—येषामिति । सतोऽन्यस्य स्वरूपे स्थिते, नष्टे वा, मा भूद्ध्वंसो व्याघातादनवस्थानाच्च । तर्हांसत एव भयस्योत्पादेऽभयप्राप्तिर्भविष्यतीत्याशङ्कयाऽऽह-न चासत इति । व्यतिरिक्तेश्वरस्य सत्तामात्रेण न भयहेतुत्वं, किंतु प्राणिकृतधर्माधर्माद्यपेक्षस्य; मुक्तस्य तु तदभावादभयं भविष्यतीत्याशङ्कय नैतत्सांख्येन वाच्यम्, अधर्मादरेपि सतस्ते- नात्यन्तासत्त्वानङ्गीकारात, नैयायिकादिमतेऽपि सति हेतौ कार्यात्यन्ताभावस्य दुरवधारण- त्वात्तेनापि न वाच्यमित्याह – न तस्यापीति । किंच सञ्चेदसत्त्वमापद्यतेऽधर्मादिकं, तर्था- त्मन्यपि कः प्रश्वासः ? तस्मात्स्वभाववैपरीत्यं सतोऽसत्त्वगमनं कस्यापि मते न घटत इत्याइ – सदसतोरिति । स्वमतं निगमयति–एकत्वपक्ष इति । अविद्याकल्पितं भयं विद्यया निवर्तत इति वदता विद्याविद्ययोरात्मधर्मत्वमिष्टं, ततो धर्मोत्पादविनाशयोर्विकारित्वमनित्यत्वं च प्रसज्येतति ( १ ) ' अग्रहणाकाराविकृतस्वरूपावस्था तस्य ' | ( २ ) ●रात्मानात्मनोः स ० - इति पाठ: । ( २ ) एवाभ° -इति पाठः ।